Feb 202014
 

“कुलीरकुहरे करी परिलुनाति पञ्चाननम्”

इति पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

 

 

  29 Responses to “पद्यपाने संस्कृतपद्यमासः ८ : समस्यापूरणम् :: कुलीरकुहरे करी परिलुनाति पञ्चाननम्”

  1. स्वपत्सु बहु-भीषणं — बहु-विचित्र-कोलाहलः
    क्वचिद् वदन-पञ्चकं — भवति मानुषे वैरिणि।
    ततो बृहति कर्कटे — ऽतिगजगात्रता कल्पिता
    कुलीरकुहरे करी — परिलुनाति पञ्चाननम्॥

    • Thanks for this fast solution in spite of the difficulty of the samasyaa. However, the samasyaa has remained as it is:-)

      • किमनया परिहृता समस्या 🙂

        कुलीर इव भासते — तटगतस् तु वेदोदधेः
        भवेत् तु दुरहङ्कृतिः — मनसि कॢप्तपञ्चाननः।
        तदीयहनने जपेत् — विनयदं सुहस्त्याननम्
        कुलीरकुहरे करी — परिलुनाति पञ्चाननम्॥

        [कॢप्त इति सम्यक् न दृश्यते चेत् – तत्र kLLpta इति अवगम्यताम्।]

  2. शरीरहितमानसः पथिकजल्पनं संदधौ
    फलं तदमृतोपमं! स कपराक्षिकार्थं ययौ ।
    रसाय दृढकर्कटाकृतिसमे फलक्षोभके
    कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥

    कपराक्षि इति फलविशेषः । तस्य सन्ति पञ्च मुखानि ।
    कश्चित् शरीरहितकांक्षी पथिकजल्पनं संदधौ श्रुतवान् । तत्फलम् अमृतोपमम् इति । झटिति फलं प्राप्तवान् ।
    तत्फलरसं प्राप्तुं सः करी पुरुषः कर्कटाकृतिसदृशे फलक्षोभके (जूसर् यन्त्रे) फलं परिलुनाति ।
    शीर्यात् शरीरमिति ज्ञात्वापि कथमपि तद्रक्षणे यत्नः!

  3. नरेन्द्रमुरुविक्रमं जयति केज्रिवाल् इत्यसौ
    ददौ ’सुमति’सोनिया प्रवरदेहलीविष्टरम् ।
    न वेत्ति विफलं भवेदिदमिति भ्रमाढ्या, कथं
    कुलीरकुहरे करी परिलुनाति पञ्चाननम् ?॥

  4. साक्षात् कथावस्तुनिर्देशेन इदं पूरणम् – (हर्क्युलीस् कथाभागः अयम्)

    वधेन परितप्तधीः सुतगणस्य षट्कस्य यो
    द्वयं च दश साहसान् स्वशमनाय कर्तुं गतः ।
    क्षिपन् सपदि कर्कटं नभसि हेरया प्रेषितं
    कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥

    पञ्चाननम् = ह्यैड्रा
    इयं कथा कर्कटराश्याः उच्यते । हर्य्क्युलीस् पञ्चाननेन युद्धे यदा प्रवृत्तः तदा हेरया प्रेषितं कर्कटं तस्य पादं दशति । तं कर्कटं नभसि क्षिपन् पञ्चाननम् अपि मारयति ।

    • नरेशकविभारती जयति यावनीयाकृतिं
      प्रकल्प्य निजपूरणॆ रसिकचित्तसंतुष्टये ।

      • ग्रथितं नु समर्थश्चेत् पदविधिर्महात्मना ।
        कथं तर्हि समासोऽयं प्रथमे नु पदे गुरो ?!

        मम संतोषः ।

        • एवं स्यात्? भारती नाम वाणी वा काव्यम्। कवेर् भारती कविभारती। नरेशस्य कविभारती नरेशकविभारती।

          अन्यथा एवं स्यत् – नरेशो नाम कविः नरेशकविः। तस्य भारती नरेशकविभारती।

          • सविनोदमुक्तं भोः । मम नाम्ना कविशब्देन समासः इति कृत्वा ।

  5. चतुर्दशतमे दिने बहुल आश्विने कौतुके ।
    जलावृत-महारणे स्थितमहासुरं तं मुरम् |
    शतै:किरणकैर्विभोः भसितमानचक्रायुधो ।
    कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥

    karI – the one with kara (sudarshana) parilunAti – destroys – panchAnanaM (mura)

    On the festival of the fourteenth day of the dark fortnight of Ashvina, the effulgent discus-weapon of the Lord with its hundreds of rays, destroys the great five faced asura Mura in the flooded battlefield that is like a cave for crabs.

    • चतुर्दशतमे दिने बहुल आश्विने कौतुके ।
      जलावृत-महारणे स्थितमहासुरं तं मुरम् |
      शतै: किरणकैर्विभुर्भसितमान-चक्रायुधः ।
      कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥

      Effulgent Krishna destroys the five faced Mura in a water-filled battlefield. (Pls disregard the previous one)

      • चतुर्दशमहादिने बहुल आश्विने कौतुके ।
        जलावृत-महारणे स्थितमहासुरं तं मुरम् ॥
        शतै: किरणकैर्विभुर्भसितमान-चक्रायुधः ।
        कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥

        nidrAlunA mayA doShA anekAH kRutAH 🙂

        • प्रियराघवेन्द्रार्य, भसितमान इति पदं कथं साध्यम्?

          • satyaM. tathaa ca anEkE iti vaktvavyE anEkaaH iti skhaalityaM. kRpayaa paarihriyataaM dOShaH.

          • महारणसमुद्यमे बहुल आश्विने कौतुके ।
            तमोवृत-जलाशये स्थितमहासुरं तं मुरम् |
            गृहीतपरमायुधः स्मितमुखो हरिर्लीलया ।
            कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥

            kShantavyoham budhaiH |
            naukAdvayaprayANasya kathaM vA lakShya-sAdhanaM? 🙂

            doShaH parihRutaH kimanena padyena?

            aneke ityasya sAdhutA siddhA | “anekAH” iti shabdo.api kutrApi prayukto dRShTaH |

          • सर्वमधुना परिष्कृतमिति मन्ये। सुन्दरमस्ति।

        • ಅನೇಕಶಬ್ದಸ್ಯ ಸರ್ವನಾಮ್ನಃ ಸ್ತ್ರೀಲಿಂಗರೂಪಂ ಬಹುವಚನೇ ತು ’ಅನೇಕಾಃ’ ಇತ್ಯೇವ| ಕಿಂ ಚ ಪುಂಸಿ ’ಅನೇಕೇ’ ಇತಿ ಖಲು:-)

          • I saw your mail and I was not knowing the vikalpa-s to this word as I had never come across such form in the literature that I had read. However I always feel that if lexicons or dictionaries approve other forms, one and all can happily use them. As our good friend Sudheer says, na kEvalaM aaptavaakyaM pramaaNaM, ApTE (V S Apte) vaakyamapi pramaaaNaM 🙂

          • मयापि श्रुतमिदं वैयाकरणमतम् –

            बहुव्रीहौ कृते अनेकाः इत्येव भवति।
            न एकः येषु ते जनाः = अनेकाः जनाः।

            परन्तु अनेके जनाः = अनेकश्च अनेकश्च अनेकश्च जनाः।

  6. ख-दर्शनकरॊऽवदद्-वर-खगॊल-तज्ञॊ मुदा
    “चकास्ति पुरतॊ व्रजः प्रखर-तारकाणां यथा ।
    कुलीरकुहरे करी परिलुनाति पञ्चाननं
    ह्यपार-गगनॆऽद्भुतं व्यरचयन्न किं किं विधिः” ॥

    An astronomer was viewing the sky (through a powerful telescope, of course) and when he saw a cluster of stars in the Crab Nebula, his imagination saw a beautiful picture and he marvelled at the creation of God.

    • सुन्दरी कल्पना। व्यचारयन् इत्येव स्यात् णिजन्तरूपम्।

      • अयि भॊः सुहृद्वर सुधीर! नितरां हृद्या कल्पना । भवादृशा एव चैवं विधं कल्पयितुं कवयितुं किल समर्थाः ।
        वयस्यवर विश्वास ! तत्र भवता सुधीरॆण साधुशब्द एव प्रायोजि ।
        “व्यरचयत् (वि+अरचयत्) + न किं ….” इति सन्धिः। न तत्र शतृप्रयॊगः। अपि च रचयति इति चुरादिगणीयश्शब्दॊ विद्यत एव ।

Leave a Reply to रामकृष्णपेजत्तायः Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)