Sep 022014
 

“हिमालये लसति पयोनिधिः किल”

इति पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः | रुचिरावृत्तम्  | लक्षणं : U_U_ | UUUU_U_U_ |अत्र ‘|‘ यतिस्थाननिर्देशनचिह्नम् |

  31 Responses to “पद्यपाने संस्कृतपद्यमासः १२ : समस्यापूरणम् :: हिमालये लसति पयोनिधिः किल”

  1. Two pUraNa-s in a hurry:-)

    दृगन्तरे परमदयातरङ्गिणी।
    विलिल्यिरे हृदि विनतात्मनिम्नगाः
    महेशितुश्शिरसि सुरापगा ततो
    हिमालये लसति प्योनिधिः किल॥

    (As the Lord Shiva has a river of compassion in his eyes, a celestial river in his matted locks and innumerable devotees entering his heart like many rivers, the Himalyas have an ocean in them)

    महोर्मिवच्छिखरपरम्परा तथा
    हिमप्रभा विलसति फेनराजिवत्।
    वनावली विपुलजलोपमा ह्यतो
    हिमालये लसति पयोनिधिः किल॥

    (The peaks look like the waves, the snow looks like the lather and the forests look like waters; hence the Himalayas appear to contain an ocean.)

    • चमत्कृतिर्विलसति पूरणद्वये
      समर्पये मुदितमनाः कृतज्ञताम् 🙂

  2. अभीप्सिता किमु सखिताद्य पाकिभिः
    कदध्वगैः सततमनल्पवञ्चनैः ।
    भवेदिदं नियततया तदा यदा
    हिमालये लसति पयोनिधिः किल ॥
    पाकिभिः – पाकिस्तानीयैः

    • अभिनवं अभिरामं भवतः कल्पना।अभिनन्दनानि:-)

  3. हता धरा पुनरपि मर्त्यतापकैः
    तदोर्मयः शशिनि शमाय लङ्घिताः ।
    विना बलं भुवि पतिता यतः समं
    हिमालये लसति पयोनिधिः किल ॥

    (Because of global warming, waves jump toward the moon for cool comfort. Without sufficient strength, they fall back to earth. So the earth is flooded and Himalaya has become an ocean).

    • अहो! विज्ञान-तंत्रज्ञानादीनां प्रज्ञया किल प्रत्यग्रविधेन रूपितः परिहारो भवता
      तदत्यन्तस्वरसश्च। अभिनन्दनानि।

      • वन्दे, वर्य । शंसन्ति वचांसि खलु भवतां तन्वन्ति तोषं पद्यप्रयत्ने निगूढम् ।

  4. ವಿಶಂಕಟಂ ಕವಿರಿವ ಮಾನಸಂ ಸರಃ
    ವಿಲೋಕಯನ್ ವಿಪುಲತರಂಗಶೋಭಿತಮ್ |
    ವಿಸಿಷ್ಮಿಯೇ ವಚನಮುವಾಚ ಯಾತ್ರಿಕಃ
    ಹಿಮಾಲಯೇ ಲಸತಿ ಪಯೋನಿಧಿಃ ಕಿಲ ||

    • सरसा तव केयूर ! स्वभावोक्तिसरस्वती।
      समस्यापूरणाकल्पे वाण्याः केयूरतां गता॥

      The swabhaavOkti way of solving this samasyaa is really good:-)

  5. Two more …
    तटं गतः सुरसरितः प्रयागसं-
    -गमे मुखं किमिव विकारयन् स्थितः ।
    “विशालता किमु!” मनुते सविस्मयं
    हिमालये लसति पयोनिधिः किल ॥

    (Standing on the banks of the Sangama at Prayaga, he marvels at the expanse of water (contorting his mouth in various ways to show surprise) and thinks Himalaye lasati …)

    क्षमस्व नस्तदनवधानतः कृता-
    -नपक्रमान्, तव चरणश्रिता वयम् ।
    अतिप्लवाद् बलिसलिलस्य रंहसा
    हिमालये लसति पयोनिधिः किल ॥

    नः अस्माकं तदनवधानात् कृतान् अपक्रमान् दोषान् क्षमस्व । वयं तव चरणश्रिताः । बलिनः सलिलस्य रंहसा वेगेन अतिप्लवात् प्रवाहात् हिमालये लसति …
    (Remembering the Kedarnath floods).

    • This is a real great pUraNa. It has not only rich imagination but also pulsates with many under and over tones that speak volumes on our down hill “developmental policies”.

  6. हिमं सदा। भवति नु सञ्चितं विता-
    नमानवत्। दिनकररश्मिघट्टना-
    द्रिणाति वै। वहति नदी-नदः भवन्
    हिमालये| लसति पयोनिधिः किल
    (वितान = plenty)

    • पादान्ते पदपूर्तिरवश्यं
      कर्तव्या ननु सुरवाण्याम् ।
      भद्रातः परिवर्तितपद्यं
      दत्वा संतोषय मित्र ॥

  7. कवे:कलाललितसुकाव्यवस्तुन्ः
    प्रयात्रिणो हि सुकमनीयतादृशोः।
    सुदेवतासकलकलापलीलया
    हिमालये लसति पयोनिधिःकिल॥

    • आर्य, पद्यपानाय हार्दिकं स्वागतं वः। भवत्परिचयाभिलाषिणश्च वयं जनाः।
      अपि च भवत्पद्यराचनायां यद्यपि व्याकरणशुद्धिरस्ति तथापि पदपद्धतिरितोsपि हृद्या भवितुमर्हति। अन्यच्च परिहारस्यास्य तात्पर्यं न स्पष्टतामगादिति मे मतिः।तत्कृपया विव्रियतां यथानुकूलम्।

      • आचार्याः । प्रणामाः।
        उमामहेश्वरेति अयम् आहूयते। राजीवगान्धिपरिसरे व्याकरणाचार्यद्वितीयवर्षीयोऽहं पद्यरचनादिसाहित्यकलासु प्रीतिमान् तत्रैव रमे च सामान्यतः।

        प्रकृते सुदेवतासकलकलापलीलया हि कवेः कला-ललितसुकाव्यवस्तुनः पयोनिधिः तथैव प्रयात्रिण:कमनीयतादॄशोः अभिलषितायाः सुन्दरतायाः पयोनिधिः हिमालये लसति किल इति अर्थः ईप्सितः परन्तु द्वितीयपादे अन्वये क्लेशः अनुभूयते इत्यङ्गीकरोमि। कृपया अहम् बोधनीय इति सविनयं विनिवेद्यते

        एवं च ऐदम्प्राथम्येन अनेन वृत्तेन यत्नः कृतोऽस्ति।

  8. प्रकाशवच्छिखरतरङ्गशम्बरं
    शिलागताश् च सलिलजीवशुक्तयः।
    क्वचिन्मणिश् च लवणसङ्गतिः क्वचित्
    हिमालये लसति पयोनिधिः किल॥

    शम्बरं नाम जलम्। शुक्तयः नाम कपालखण्डश्, शङ्खो, जलजीवविशेषो वा।

  9. तरङ्गिणीः पथि पथि पोषितात्मनि
    कलत्रता च यदुपमेरिता बुधैः ।
    मनोर्मिभिर्हि किमु न बन्धुधाम्नि वै
    हिमालये लसति पयोनिधिः किल ॥ ?

    नदीपयोनिध्योः पतिपत्निभावः कविभिः चिरात् उक्तः एव । यद्यपि बह्व्यः नद्यः हिमालये जायन्ते तथापि हिमालयम् नदीनाम् पिता इति लक्शितम् व न जाने, परन्तु याः झर्यः जायन्ते ताः हिमालयात् अवतरन्त्यः महानद्यः भवन्ति । अतः हिमालयः तासाम् पोशणेन बन्धुः इव जातः । अतः बन्धुगृहे मनसा वा भवति एव इति तात्पर्यम् । rhetorical question iva |

    ~Raghu

    • प्रतिपथिपोषितात्मनि इत्यस्य को विग्रहः? प्रतिपथम् इति तु अव्ययीभावसमासोत्पन्नाव्ययं हि।

      • satyamaaha bhavaan | “pathi pathi” iti parishkaromi |
        dhanyavaadaaH

        • पुनश्च, पोषितः इति कर्म सूचयति, न कर्तारं पोषकम्। कथमिव पोषितात्मनीति?

          • विश्वास,
            समीचिनोयम् प्रश्नः । तत्र दोषः वर्तत एव । दोषदर्शनाय उपक्रुतोस्मि ।

            जानामि सम्प्रति नूतनपद्यपूरणम् आगतमस्ति । तथापि दोषयुक्तम् अपरिष्क्रुत्य तथैव स्थापयितुम् न इष्टवान् ।

            हिमाद्रिणा पथि पथि पोषिता नदीः
            कलत्रता च यदुपमेरिता बुधैः ।
            मनोर्मिभिर्हि किमु न बन्धुधाम्नि वै (अथवा-> मनीषया हि किमु ॥।)
            हिमालये लसति पयोनिधिः किल ॥ ?

            सस्नेहम्,
            रघुः

    • पद्यपानं भवते हार्दिकं स्वागतं व्याहरति रघुवर्य ! भवत्परिचयलिप्सुरयं जनश्च।
      यथा वयस्येन विश्वासवर्येण सूचितं सन्ति केचन रचनालोपा भवपद्ये। तथापि कालेन गच्छता ते वारं वारं हृद्यानि पद्यानि लेखं लेखंश्च मार्जिता भवन्तीति नास्ति संशीतिलेशः। श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम्।

      • नमाम्सि गणेश-वर्य । अहम् इदानीम् अमेरिका देशे (san jose) नगरे वसामि । यदा भवान् शिबिराणाम्-क्रुते अत्रागतवान् भवता सह मिलितवान् अपि । प्रायः जनसम्मर्दे भवान् न स्मरेत् । प्रेरणात्मक वचहनानाम् क्रुते धन्यवादाः ।

        अहमपि कर्नाटकियः मैसूरु-नगरतः ।

        भवदीयः,
        रघु

        • वयस्यवर रघुमहाभाग,

          स्यान्होसे-नगरीयं भवन्तमहं अवश्यं स्मरामि। किं तु “सोsयं देवदत्तः” इति बुद्धिर्न मे प्र्त्यभाद्यतः किल नामसादृश्येन स्युर्भहव इति। प्रमोदस्थानमिदं यद्भवान् संप्रति पद्यरचनायां स्पृहयालुरिति। वर्धतां भवदीया कविताकेलिः।
          भवत्पद्यस्य नूतनं रूपमहमवालोकयं; यत्र प्रायेण न च्छन्दोव्याकरणलोपा विद्यन्ते। तथापि च वै तु हि इत्यादि निपातानां निरुपयोगिप्राचुर्यं निवारणीयमिति मे मतिः। एवमेव क्रमेण महाकविकाव्यालोकननैरन्तर्येण नूनमावहति कालेन कापि विच्छित्तिः खलु भवत्पद्यप्रावण्ये।

          • नमाम्सि गणेशवर्य,
            धन्योस्मि । भवतः निर्गर्वस्वभावाय विनयशीलतयै अपि अहम् भवन्तम् सर्वथा साष्टाङ्गम् नमस्करोमि । अग्रिमे अवसरे निश्चयेन मेलिष्यामि ।

            सादरम्,
            रघुः

  10. ಸುರಾಧಿಪೋsದಮಯದಗಾಧಿಪಾನ್ಯದಾ
    ನಿರಾಶ್ರಿತೋ ಗಿರಿತನಯಃ ಪಯಃಕುಲೇ
    ನ್ಯವರ್ತಯತ್ ಸುವಸತಿಲೋಪಕಾರಣಾತ್
    ಹಿಮಾಲಯೇ ಲಸತಿ ಪಯೋನಿಧಿಃ ಕಿಲ

    ಇ೦ದ್ರನಿಗೆ ಹೆದರಿ ಮೈನಾಕನು ಸಮುದ್ರವನ್ನು ಸೇರಿದನು. ಅಷ್ಟು ಜಾಗ ಕೊರತೆ ಆಗಿದ್ದಕ್ಕೆ ಭಾಗಶಃ ನೀರು ಹಿಮಾಲಯವನ್ನು ಸೇರಿತು.

    • ಪರಿಹಾರವು ಚೆನ್ನಾಗಿದೆ. ಆದರೆ ಪದ್ಯಬಂಧವು ಮತ್ತೂ ಹದವಾದರೆ ಒಳಿತು. ಅಡ್ಡಿಯಿಲ್ಲ; ಹೀಗೆಯೇ ಮಹಾಕವಿಗಳ ರಚನಾಸ್ವಾದದ ಮೂಲಕ ಕ್ರಮೇಣ ಬೇಗದಲ್ಲಿ ಒಳ್ಳೆಯ ಶೈಲಿ ಕಯ್ಗೂಡೂತ್ತದೆ.

Leave a Reply to Raghu Rao Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)