Jan 012015
 

विविधालंकारान् उपयुज्य हेमन्तशिशिरयोः वर्णनं कुर्मः|

  7 Responses to “पद्यपाने संस्कृतपद्यमासः १६ : ऋतुवर्णनम्”

  1. ಹೇಮಂತದ ಪರ್ವತಶಿಖರದವರ್ಣನೆ:

    हिमाच्छन्नाचलाग्रेस्मिन् बालार्करश्मिविभ्रमम् |
    दृष्ट्वास्मराम्युष: काले कन्याकैशिकधूपनम् ||

  2. स आह –
    प्रेम्ण्यस्रवति नु त्वत्तो विगतोष्ण्ये प्रिये तव ।
    हृदयं मे घनीभूतं शिशिरेषु जलं यथा ॥

    (ಪ್ರಿಯೇ, ನಿನ್ನ ಪ್ರೀತಿ ನನ್ನೆಡೆಗೆ ಹರಿಯುತ್ತಿಲ್ಲವಲ್ಲ. ಅದನ್ನು ನೋಡಿ ನನ್ನ ಹೃದಯವೂ ಮಿಡಿಯುತ್ತಿಲ್ಲ).

    सा प्रत्याह –
    शीतवातेन निर्धूता हेमन्ते नगसिंहगा ।
    तथा निर्मण्डनास्मीति प्रेक्षमाणो हि पृच्छसि ॥

    नगसिंहगा = वृक्षश्रीः | (अत्र किंचित् विरोधालङ्कारस्य यत्नः)
    (सिंहगा = लक्ष्मीः यतः तस्याः वाहनं सिंहः)

    (ಹೇಮಂತದ ಶೀತಲವಾತದೊಂದಿಗೆ ವೃಕ್ಷಲಕ್ಷ್ಮಿಯು ಅಲುಗಾಡಿಸಲ್ಪಟ್ಟವಳಾಗಿ ಎಲೆಗಳನ್ನು ಕಳೆದುಕೊಂಡವಳಂತೆ ನಾನು ನಿರಾಭರಣವಾಗಿರುವದನ್ನು ನೋಡಿ ಕೇಳುತ್ತಿದ್ದೀಯೇ?!)

  3. क्षम्यतां दीर्घकालीनं मौनम् ।

    दृष्ट्वा दूरे तरुनिचयमहो भासमानं ह्युदीच्याम्
    पर्णैर्युक्तं सुरभिसदृशं पीतरक्तादिवर्णै: ।
    एवं चिन्ता मम मनसि भोरागता सा विचित्रा
    भाण्डारं स्वं प्रकटयति किं दानशूरः कुबेरः ॥ (हेमन्ते) ॥

    दृष्ट्वा दूरे तरुनिचयमहो भासमानं ह्युदीच्याम्
    पर्णै रिक्तं विगतविभवं धूसरं शुष्करूपम् ।
    एवं चिन्ता मम मनसि भोरागता सा विचित्रा
    दत्त्वा सर्वं प्रकटयति किं निर्धनत्वं कुबेरः ॥ (शिशिरे) ॥

    • किञ्चित् परिष्कृतम् —
      दृष्ट्वा दूरे क्षितिजनिचयं भासमानं ह्युदीच्याम्
      पर्णैर्युक्तं सुरभिसदृशं पीतरक्तादिवर्णै: ।
      एवं चिन्ता मम मनसि भोरागता सा विचित्रा
      भाण्डारं स्वं प्रकटयति किं दानशूरः कुबेरः ॥ (हेमन्ते)॥

      दृष्ट्वा दूरे क्षितिजनिचयं दुःखितं शीतवातैः
      पर्णै रिक्तं विगतविभवं धूसरं शुष्करूपम् ।
      एवं चिन्ता मम मनसि भोरागता सा विचित्रा
      दत्त्वा सर्वं प्रकटयति किं निर्धनत्वं कुबेरः ॥ (शिशिरे)॥

Leave a Reply to नरेशः Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)