Mar 062015
 

अस्मिन् पद्यमासे वस्तुनिर्बन्धो नास्ति । वियोगिनिछन्दसि पद्यानि रचयामः ।

  22 Responses to “पद्यपाने संस्कृतपद्यमासः १८ : वर्णनम् |”

  1. ಅನ್ಯಭಾಷೆಯಲ್ಲಿ ದೃಷ್ಟಿಬೊಟ್ಟು:
    ಅವಧಾರಣಮುಕ್ತಮಾಗಿಸೇಂ| ಬರಿಯೊಂದಾ ವಿಷಯಾಂತರಾಳಮಂ
    ಕವಿಗರ್ಧಸಮಂ ’ವಿಯೋಗಿನೀ’| ಬಹುನಿರ್ಬಂಧಮೆ ನೋಡೆ ಛಂದದೊಳ್|
    ಕವಿಯೇನ್? ಒರುವಳ್ ವಿಯೋಗಿನೀ| ಬಹುನಿರ್ಬಂಧಳುಮಂತೆಯೇ ಗಡಾ
    ಧವನಿಲ್ಲದೆ ಲುಪ್ತಮಾದುದೈ| ಸದಲಂಕಾರಮು ಮೇಣ್ ಪ್ರಸಂಗಮೈ||

    • ವರಸುಂದರಪದ್ಯಪಾನದೊಳ್ ಪರಿನಿಂದ್ಯಂ ಗಡಮಿಲ್ಲಮಾವುದುಂ|
      ಅರರೇ! ಇದು ದೃಷ್ಟಿಬೊಟ್ಟೆ? ವಿಸ್ತರಿಸಲ್ ಚೆಲ್ವಿನ ವರ್ಧನಾಂಕಮೇ!!

  2. अधराहितचारुवेणुना
    करपल्लवजं सुधारसम् ।
    तनुते यदुनन्दनो युवा
    मधुरं कुरुते वनं तथा ॥

    • अधराहितचारुवेणुना
      स्वरसम्पत्प्रभवं सुधारसम्।
      तनुते यदुनन्दनो युवा
      मधुरं तेन करोति काननम्॥

  3. Entered something else by mistake

    • Intended to enter:
      जननीजनकौ तु विस्मितौ
      शिशुमद्भुतरूपिणं ततः ।
      धृतचक्रमहो चतुर्भुजं
      कमनीयमुखं ददर्शतुः ॥

      • आदरणीयश्रीरामप्रियमहोदय! चिराय किल श्रुतम्! प्रमुदितं चित्तं भवत्कवनेन। किं चात्र वियोगिनीवृत्तमर्धसमं ननु! परन्तु भवद्भिः केवलं समवृत्तरीत्या तत्समादृतम्। प्रमादमिदं यथानुकूलं प्रमृज्य पद्यान्यन्यानि लिखन्त्विति मनीषा मम। अत्र संप्रति भवता कृते पद्ययुगले सर्वमनवद्यं वृत्तनिर्बन्धमेकं विना। अस्य वियोगिन्यामेव विन्यासं यथामति स्वयमहं करिष्ये।

        • धन्योऽस्मि भवतां साहाय्येनात्र । छन्दोलक्षणाज्ञत्वेन लिखितं किञ्चित्क्लेशेनैव यद्यपि अर्धसमवृत्ते मनः अचलत् प्रथमतः । श्रीमद्वेदान्तदेशिकस्य गोपालविंशत्यां पद्ययुग्ममस्ति अस्मिन् वृत्ते । यथा –
          हृदि मुग्धशिखण्डमण्डनो
          लिखितः केन ममैष शिल्पिना ।
          मदनातुरवल्लवाङ्गना-
          वदनाम्भोजदिवाकरो युवा ॥

          महसे महिताय मौलिना
          विनतेनाञ्जलिमञ्जनत्विषे ।
          कलयामि विमुग्धवल्लवी-
          वलयाभाषितम्ञ्जुवेणवे ॥

      • जनीजनकौ तु विस्मितौ
        शिशुमत्यद्भतरूपिणं ततः।
        धृतचक्रमहो चतुर्भुजं
        कमनीयास्यवरं ददर्शतुः॥

  4. I shall describe the present advent of spring in Bangalore in a lighter vein:

    गडुलाश्चटुलास्तु बालकाः
    स्वपरीक्षार्थमथो सपत्रकम्।
    गुरुपुस्तकराशिमाश्रय-
    न्त्ययमेवात्र हि पल्लवोद्गमः॥

    अनिशं जगती-क्रिकेट्-प्रियै-
    रतिवेलं क्रियमाणचीत्कृतिः।
    कलकोकिलकाकलीकला-
    व्यपदेशस्तदलं सुविस्तरैः॥

    घनवाहननिर्गतैर्हतैः
    श्वशनच्छेदकधूमघूर्णितैः।
    मलयानिलवीजितं कथं-
    चिदहो स्मर्तुमलं कथान्तरे॥

    धृतजङ्गमवाग्विभूषणा
    वनिता यान्त्यभिसारसारिकाः।
    अवियोगवियोगिनीगतौ
    कृतसंदेशनिदेशनिर्भराः॥

    मुखडिण्डिमताण्डवायितै-
    र्युवका मौखिकवैणवास्तथा।
    मधुपालिकुलस्य गुञ्जितं
    विदधत्याशु मनोज्ञ-माल्-स्थले॥

  5. ತನಗಿರ್ದ ವಿಯೋಗ ಭೀತಿಯಿಂ
    ಮನದೊಳ್ ಕಾಂತನ ಬಚ್ಚಿ ಗೊಳ್ವವೊಲ್
    ದಿನದಾಣ್ಮನ ಭೂಮಿ ಮೆಲ್ಲಗೇ
    ಸನಿಯಂ ಬಾಳಿಸಿ ಮುಚ್ಚಿಕೊಂಡಳೇ?

    (ಸೂರ್ಯಾಸ್ತ)(ವಿಯೋಗವನ್ನು ಬಯಸದ ಕಾಂತೆಯು ತನ್ನೊಳಗೇ ಆತನನ್ನು ಸದಾ ಇಟ್ಟುಕೊಳ್ಳುವಳೋ ಹಾಗೆಯೇ ಸೂರ್ಯನನ್ನೂ ಭೂಮಿಯು…)

    • ನಿಮ್ಮ ಕಲ್ಪನೆ ಅಮೋಘವಾಗಿದೆ. ಆದರೆ ಭಾಷಾದೃಷ್ಟ್ಯಾಸ್ವಲ್ಪ ಸವರಣೆ ಬೇಕಿದೆ:
      ತನಗಿರ್ಪ ವಿಯೋಗಭೀತಿಯಿಂ
      ಮನದೊಳ್ ಮುದ್ರಿಸಲೆಂದು ಕಾಂತನಂ|
      ದಿನದಾಣ್ಮನನುರ್ವಿ(ಭೂಮಿ) ಸಂಜೆಯೊಳ್
      ಸನಿಯಂ ಬಂದಿರೆ ಬಾಚಿಕೊಂಡಳೇಂ?

  6. ಧನ್ಯವಾದಗಳು ಸರ್, ಸವರಣೆಗಾಗಿ ಮತ್ತೆ ಒಳ್ಳೆಯ ಮಾತಿಗಾಗಿ.

  7. Extending on the theme of #3:
    जननीजनकौ तु विस्मितौ
    शिशुमत्यद्भुतरूपिणं ततः ।
    धृतचक्रमहो चतुर्भुजं
    कमनीयास्यवरं ददर्शतुः ॥१॥

    यमुनां प्रति गन्तुमुद्यतम्
    वसुदेवं च शिशुं शिरोधृतम् ।
    निशि निद्रितकंससेवकाः
    न ददर्शुः किल नापि शुश्रुवुः ॥२॥

    नवजातशिशोरथाज्ञया
    वसुदेवो यमुनातितीर्षया ।
    व्रजभूमिमवाप्तुमुद्यतः
    स तमःपूर्णपथि प्रयातवान् ॥३॥

    भुजयोर्जलमग्नयोस्सतोः
    वसुदेवश्शिशुमुद्दधार ह ।
    अभवद्गुरुमेघगर्जनम्
    महती वृष्टिरभून्निरन्तरम् ॥४॥

    जलदान् शिशुमन्तरा तदा
    फणिराट् छत्र इवास्थितोऽभवत् ।
    वसुदेवशिशू तथा गतौ
    सुखिनौ नन्दगृहं गवां कुले ॥५॥

    वसुदेवसुतं तु नन्दराट्
    शयने स्वस्य वधोर्निवेशयन् ।
    नवजातशिशुं निजात्मजाम्
    वसुदेवाय ददौ सुनिद्रिताम् ॥६॥

    ववृधे यदुनन्दनस्ततः
    स यशोदां परिपूरयन् मुदा ।
    विविधैर्नवबालचेष्टितैः
    व्रजभूम्याश्च जनान् दिने दिने ॥७॥

    शकटं दनुजां च पूतनाम्
    युगलं चार्जुनयोरथार्भकः ।
    निजघान स हन्तुमुद्यतान्
    क्षणमात्रेण हि कंससेवकान् ॥८॥

    परितस्थगृहान् प्रविश्य सः
    नवनीतदधी चुचोर ह ।
    कुपिता कृतिभिर्मनस्विनी
    प्रियमातापि बबन्ध दामनि ॥९॥

    यमुनाविषदं तु कालियं
    फणनृत्येन विवासयंस्ततः ।
    सकलव्रजवासिनां भयम्
    बहुदूरीकृतवानभूत्तदा ॥१०॥

    अधराहितचारुवेणुना
    स्वरसम्पत्प्रभवं सुधारसम् ।
    तनुते यदुनन्दनो युवा
    मधुरं तेन करोति काननम् ॥११॥

    • अतिवेलमनोज्ञपद्धतौ
      ननु रामप्रियवर्य! वर्णिता।
      यदुमौलिचरित्रमाधुरी
      भवता भक्तिरसावियोगिनी॥

      • पुनरेकम् —
        अपहृत्य समस्तशाटिकाः
        यमुनास्नानरता यदा स्त्रियः ।
        निकटे तरुसंस्थितो हसन्
        करयोरञ्जलियाचकोऽभवत् ॥१२॥
        (श्रीमद्वेदान्तदेशिकवर्यस्य गोपालविंशत्याः पद्यमेकमनुसृत्य यदेवमस्ति मन्दाक्रातावृत्ते —
        वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनाम्
        लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
        सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
        कामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥)

    • अनलेन न यस्तु दह्यते
      सकलं तेन वरेण दाह्यते ।
      विपरीतमभूज्जगत्पतौ
      सहसा दाहित एव राक्षसः ।।

  8. ಮೊಬೈಲ್ ಬಗ್ಗೆ…

    ಒಡನಾಡುವೆನಾನನುಕ್ಷಣ೦
    ಬಿಡದಿರ್ಪೆ೦, ಕಿವಿಯಿ೦ದಲೆನ್ನನು೦
    ಬಿಡಲಾಗದಿಹರ್ ಜನರ್ ಕೆಲರ್
    ಕೊಡದಿರ್ಪ೦ ವಿಧಿಯೆನ್ನನ೦ಗದೊಳ್

  9. Here are a few verses about Southern California (my new residence):
    मरुभूमिरियं तु पश्चिमे
    प्रथिता दक्षिणकॉलिफ़ोर्निया ।
    तृणमत्र सुखेन वर्धते
    जलमायातमिहास्ति दूरतः ॥१॥ (imported water)

    जलसिञ्चकनालिकाक्रमम् (sprinkler system)
    गृहपृष्ठे पुरतश्च निर्मितम् ।
    नियते समये दिने दिने
    जलमुत्सृज्य तरून् प्रशामयेत् ॥२॥

    गतवर्षचतुष्टयेऽत्र भोः
    विरलत्वेन हि वृष्टिसिञ्चनम् ।
    अत एव पुरस्य पालकैः
    तरुनीरोपशमं निरुध्यते ॥३॥ (drought regulations)

    अतिवृष्टिरिहागता यदा
    अवसर्पन्ति गिरिस्थिता गृहाः ।
    तरुरिक्तसमृत्तिकैः कथम्
    गिरिभिस्तत्स्खलनं निरुध्यते ॥४॥ (mudslides)

    सुमहद्भरवाहि दृश्यते
    परिपूर्णं नवचक्रयुग्मि च । (नवचक्रयुग्मि = 18-wheeler, a.k.a., big rig, truck)
    यतते च सदैव शीघ्रगम्
    गिरिमार्गेषु न वेगमाप्नुते ॥५॥ (slow, going uphill)

    अटने तरणे च वा मतिः
    गिरिशृङ्गोद्गमनेऽथवा स्पृहा । (गिरिशृङ्गोद्गमने = in hiking up mountains)
    सतरङ्गगतौ च सागरे
    बहवस्सन्ति सुसाधनानि भोः ॥६॥ (सतरङ्गगतौ = in surfing, a.k.a. riding waves, literally – moving with waves)

Leave a Reply to Kanchana Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)