Jul 072015
 

वृक्षाद्दृष्ट्वा शफरपतनं जीवलोको जहर्ष |

इति पादमुपयुज्य समस्यापूरणं कुर्मः |

 

  21 Responses to “पद्यपाने संस्कृतपद्यमासः २२ : समस्यापूरणम् :: वृक्षाद्दृष्ट्वा शफरपतनं जीवलोको जहर्ष |”

  1. आसीद्गेहे विपुलसलिलोद्यानमत्यन्तरम्यं
    पूर्वं कस्याप्यनुपमलसन्मीनलीलामनोज्ञम्।
    तस्मिन्केलीकृतकतरुका रोपितास्तत्र तावद्
    वृक्षाद्दृष्ट्वा शफरपतनं जीवलोको जहर्ष ॥

    समस्येयं प्रायेण कठिनैवेति मतिः। तथापि केवलं पूरणाय पूरणमिव कृतमिदं पद्यं येन न जाने के वा तुष्यन्तीति 🙂

    सलिलोद्यानं (aquarium), तरुकाः किल वृक्षकाः (लघुगात्रपादपा इति तात्पर्यम्) पतनं नाम गमनं वा डयनं वाथ चलनमित्यपि सन्त्यर्थभेदाः

  2. ಸಿ೦ಧೂದ್ಗಾರೇ ಪರಿವೃತಮಸೌ ತೀರವಾಸೋ, ತರೂಣಾ೦
    ಶಾಖಾಜಾಲೇsತಿನಿಬಿಡತಮೇ ಸನ್ನಿಬದ್ಧಾ ಜಲೌಕಾಃ
    ಕ್ಷುದ್ಬಾಧಾರ್ತೋsಪಗತಸಲಿಲೇ ಭುಕ್ತಿಕಾಮೋsತಿಶೀಘ್ರ೦
    ವೃಕ್ಷಾದ್ದೃಷ್ಟ್ವಾ ಶಫರಪತನ೦ ಜೀವಲೋಕೋ ಜಹರ್ಷ

    ಒ೦ದು ಹೊಳೆಯೊ ಅಥವ ಸಮುದ್ರವೋ ಉಕ್ಕೇರಿ ದಡದ ಊರೆಲ್ಲ ಮುಳುಗಿ ಗಿಡಗಳ ರೆ೦ಬೆಕೊ೦ಬೆಗಳಲ್ಲಿ ಜಲಚರಗಳು ಸಿಕ್ಕಿಹಾಕಿಕೊ೦ಡಿದ್ದವು. ಪ್ರವಾಹವಿಳಿದ ಮೇಲೆ ಹಸಿವೆಯಿ೦ದ ಕ೦ಗಾಲಾಗಿದ್ದ (ಅಳಿದುಳಿದ) ಜನರು ಗಿಡಗಳಿ೦ದ ಬೀಳುತ್ತಿದ್ದ ಮೀನುಗಳನ್ನು ನೋಡಿ ಹರ್ಷಿಸಿದರು 🙂

    • Idea is very good. But there are several grammatical errors. Let me correct them in the next aashukavitaa session.

      • It would be nice if the errors are pointed out in the thread itself and also if the flawed versions are left alone and the fixed versions are added as comments, in this and other threads on this website. This can be a learning experience for other readers.

        • If there were few errors then yes, what you suggest is right and also sir would have done that. But if there are several as in mine, it is difficult 🙂

        • Dear Turanga,

          I do agree with you. But my back problem eventually leading to minimal keying only makes me give my comments/corrections orally.

          • Sorry to learn about your back problem! A solution is to have the advisee on the errors (or someone else) upload the corrections. This also provides a check that the communication of the error went through correctly. Ultimately, what is best is establishing a clear flow from the incorrect initial usage to the corrected usage and exposing the underlying principles involved through all the communications that have taken place (I am reminded of an old thread of mine in which you pointed out and later elaborated on the occurrence of viShamapAdalaghu which clarified the general rules in the area. Incidentally, I kept a lookout for this usage and found very rare (but not zero; guessing of the order of one in thousand) occurrences of it in longer meters).

  3. ಕ್ಷಿಪ್ತ್ವಾ ಜಾಲಾನ್ ಸಲಿಲನಿವಹೇ ಮತ್ಸ್ಯಬ೦ಧೋದ್ಯಮಸ್ಥಾಃ
    ಯೇ ಹಿ೦ಸಾರೋರತಿಭಯವಶಾತ್ ವೃಕ್ಷಮಾರುಹ್ಯ ತೀರೇ
    ಕಿ೦ಚಿತ್ಕಾಲ೦ ಶಮಿತಮನಸಾ ಸ೦ಪ್ರತೀಕ್ಷಾ೦ ಚಕಾರ,
    ವೃಕ್ಷಾದ್ದೃಷ್ಟ್ವಾ ಶಫರಪತನ೦ ಜೀವಲೋಕೋ ಜಹರ್ಷ

    ಮೀನುಗಾರರು ನದಿಯಲ್ಲಿ ಬಲೆ ಕಟ್ಟಿ ಹಿ೦ಸ್ರಪ್ರಾಣಿಗಳು ನೀರುಕುಡಿಯಲು ಬರುತ್ತವೆ ಎ೦ದು ಹೆದರಿ ದಡದ ಮೇಲಿನ ಮರವನ್ನೇರಿ ಕುಳಿತು ನಿರೀಕ್ಷಿಸುತ್ತಿದ್ದರು. ಸ್ವಲ್ಪಕಾಲಾನ೦ತರ ಬಲೆಗಳಲ್ಲಿ ಮೀನು ಬೀಳುತ್ತಿದ್ದುದನ್ನು ಮರದಿ೦ದಲೇ ಕ೦ಡು ಹರ್ಷಿಸಿದರು.

    ಹಿ೦ಸಾರು – ಪ್ರಸಾದರ ಕೃಪೆ 🙂

  4. Ok sir, thanks

  5. नम्रो वृक्षः सरसि निकटे शोभमानो बभूव ।
    रम्यं बिम्बं शशधरयुतं धारयन् तारकाणाम् ॥
    मीनक्रीडा विमलसलिले भासमाना यथा वा ।
    वृक्षाद् दृष्ट्वा शफरपतनं जीवलोको जहर्ष ॥1॥
    ( यथा वृक्षाद् शफरपतनं दृष्ट्वा जीवलोको जहर्ष तथा विमलसलिले मीनक्रीडा भासमाना बभूव – इत्यन्वयः)

    कैवर्तो वा शकलिनिकरं सूत्रजाले बबन्ध ।
    तस्मिन्काले तटविटपिनं नक्रभीत्याऽऽरुरोह ॥
    दंशीदष्टः सपदि हि भिया हस्तमेकं मुमोच ।
    वृक्षाद् दृष्ट्वा शफरपतनं जीवलोको जहर्ष ॥2॥

    • ಆಹಾ ತು೦ಬ ಚೆನ್ನಾದ ಚಿತ್ರ!

    • नूनं परमरमणीयौ भवत्परिहारौ। कल्पना रचना च सुतरां स्तुतिमर्हतः। न स्मरामि भवन्तं जालस्थानेsस्मिन् पूर्वदृष्टम्।यदीदानीमेव भवदागमनमत्र भूयोsपि स्वागतं भवतः। नो चेदपि सर्वथा स्वागतमत्र यतो हि पद्यपानं सदा स्व्यागतसुमाञ्जलिं व्याहरति कवीनां पूर्वपरिचितानामपूर्वपरिचितानामपि:-) इतोsपि भवत्परिचयविविदुषुरस्मि।

      • अभिवादये ॥
        भवतां प्रत्युत्तरं दृष्ट्वा मया धन्यता अन्वभावि । मादृशस्य अल्पस्य परिचयेन किमपि प्रयोजनं न भविष्यति । तथापि करिष्यामि ॥ अहं भवद्-भक्तः अस्मि । (भक्तिर्नाम अतिशयप्रीतिविशेषः)। पूर्वम् उडुपिक्षेत्रे भवद्भिः विरचितं “जीवकवनावन…” इति हारबन्धं दृष्ट्वा, मयापि –
        क्षीरसरसीरससमुद्रमुदि मुद्र ।
        सागरगणागजसमप्रमदमन्थ ॥
        दानुजनुदा नुत बलप्रलयलब्ध ।
        मापतिपदात् पर सुरद्रुरथरम्य ॥ इति विष्णुस्तुतिः व्यरचि ।
        सहस्रतमेऽवधाने विरचितं “रागगेयतामरस” इति महापद्मबन्धं दृष्ट्वा, मयापि कुसुमभ्रमरयोः सम्भाषणमाश्रित्य, “दीपकपिहितपद्म” इति महापद्मबन्धोऽलेखि । पञ्चपत्रात्मकं व्याख्यानमपि लिखितम् । पद्यम् यथा –
        या हे श्रुत्यादिदीप्ता दिवि भुवि भुवि दिव्यापगा भ्रामरास्वा ।
        स्वारामभ्रान्तिकम्रा न विदितदिवि न प्रापि चेच्छा निदाना ॥
        नादानिच्छामि हिक्कां नरि नवनरि न क्वात इच्छा सुसाध्या ।
        ध्यासासुच्छान्तिपत्रं मम मधु मम मध्वाद्म इत्याश्रु हेयाः ॥ इति ।
        मम परिचयः –
        शाब्दं शास्त्रं सकनकपदं तैत्तिरीयां च शाखाम् ।
        क्लिष्टं जालं सगणकगिरं ज्यौतिषं वारिधिञ्च ॥
        आप्त्वा श्रान्तो धनविरहितां तुष्टिमाप्तोऽस्मि नित्यम् ।
        मैसूराख्यं रुचिरनगरं वाऽध्यवात्सं सुखेन ॥
        व्याकरणम्=पाणिनीयं लौकिकं वैदिकञ्च । तैत्तिरीयां शाखाम्=संहिताम्, ब्राह्मणम्, आरण्यकञ्च । (छात्रदशायां कण्ठस्थीकृता, सम्प्रति कण्ठस्था नास्ति)। क्लिष्टं जालम् = N.E.T.(U.G.C.). सगणकगिरम् =HTML, VB, C. ज्यौतिषम् = किञ्चित् । वारिधिम्=विद्यावारिधिम् ।
        “तैत्तिरीयसंहितायाः स्वरसन्धिविषये पाणिनीयसूत्राणां समन्वयः” इत्यस्मिन् विषये विद्यावारिधिः सम्पादितः ॥ V.B. इति गणकभाषामधीत्य शब्दरूपदर्शक एकः तन्त्रांशः व्यरचि । ग्रहबलस्य प्रभावः प्रत्यहं कथं सम्भवतीति ज्ञातुम् , C – भाषायां तन्त्रांशः (स्वोपयोगाय) कृतः ।
        अहं मन्दबुद्धिः । तलस्पर्शि ज्ञानं नास्ति । तथापि- प्रौढशैल्यां संस्कृते व्याख्यानं लेखितुम्, आहोस्वित् कृत्स्नं रघुवंशं, कृत्स्नं भट्टिकाव्यं, कृत्स्नं किरातार्जुनीयं, कृत्स्नां सिद्धान्तकौमुदीं च संस्कृतमाध्यमेन अद्ध्यापयितुं समर्थः इति मन्ये । पूर्वं शृङ्गेरीमठस्य कोयम्बुत्तूरुशाखायां एकं वर्षं वेदम् अध्यापयम् । कृपया चिक्षमिष्यताम् (क्षन्तुमिष्यताम्), मैसूरुनगरात् बहिर्गन्तुमिच्छा मम नास्ति, प्रायः वेदिकामपि नारोहामि । मम वयः अष्टात्रिंशत् ।

        • प्राप्याद्य ते परिचयं श्रुति-शब्दशास्त्र-
          प्रज्ञाप्रतिष्ठ! कविताकरणे महिष्ठ!
          नूनं सभाजितमवैम्यहमात्मनीनं
          गीर्वाणवाक्परिचयं; लसताच्च मैत्री॥

  6. ನಾಕ೦ ಗತ್ವಾ ಜಲಧಿತಟಿನೋ ಖಿನ್ನಚಿತ್ತಾ ಬಭೂವ
    ಪೀತ್ವಾ ಪೀತ್ವಾ ತ್ವಮೃತಮಶನೇ; ಕಾಮಯ೦ತಸ್ಸ್ವಭಕ್ಷ್ಯಮ್
    ನತ್ವಾ ಸ್ಥಿತ್ವಾ ಸುರತರುತಲೇ ಪ್ರಾರ್ಥಯಾಮಾಸ ಭಕ್ತ್ಯಾ;
    ವೃಕ್ಷಾದ್ದೃಷ್ಟ್ವಾ ಶಫರಪತನ೦ ಜೀವಲೋಕೋ ಜಹರ್ಷ

    ಸಮುದ್ರತೀರದ ಜನ (ಸತ್ತು) ಸ್ವರ್ಗಕ್ಕೆ ಹೋಗಿ ಬರೀ ಅಮೃತವನ್ನು ಕುಡಿದು ಕುಡಿದು ರೋಸಿಹೋಗಿ, ಇಷ್ಟಭಕ್ಷ್ಯಕ್ಕಾಗಿ ಕಲ್ಪದ್ರುಮವನ್ನು ಪ್ರಾರ್ಥಿಸಲು….

  7. ಮಾಧ್ವೀಯರ್ತೌ ಕುಸುಮಸಹಿತೋ ಗನ್ಧಯುಕ್ತೋ ದ್ರೃರಾಸೀತ್
    ತಸ್ಯಾಸೀದ್ವಾ ಮಧುರನಿಲಯೇ ಮೀನಕೇತುಸ್ಸ್ಮರೋsಯಮ್
    ತಾವತ್ಪ್ರಾಪ್ತೇ ಮಲಯಪವನೇ ಸಖ್ಯತಃ ಕ೦ಪಮಾನಾತ್
    ವೃಕ್ಷಾದ್ದೃಷ್ಟ್ವಾ ಶಫರಪತನ೦ ಜೀವಲೋಕೋ ಜಹರ್ಷ

    ವಸ೦ತದ ಸು೦ದರ ಸಮಯದಲ್ಲಿ ಅಲ೦ಕೃತಗೊ೦ಡ ತರುವಿನ ಮನೆಯಲ್ಲಿ ಮೀನಧ್ವಜನಾದ ಮನ್ಮಥನು ನೆಲೆಯೂರಿದ್ದ. ಅವರನ್ನು ಕೂಡಲು ಮಲಯಮಾರುತನೂ ಅಲ್ಲಿಗೆ ಬ೦ದಾಗ ವೃಕ್ಷ ಅಲುಗಿ, ಕಾಮದೇವನ ಕೇತನವಾದ ಮೀನು ಕೆಳಗೆ ಜಾರಿ ಬಿದ್ದುದನ್ನು ನೋಡಿ ಜನ ಹರ್ಷಿಸಿದರು.

Leave a Reply to Neelakanth Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)