Sep 072015
 

मासेस्मिन् श्रीकृष्णजन्माष्टमी तथा गणेशचतुर्थी पर्वाचरणार्थं कृष्णस्य वा गणेशस्य लीलाविशेषवर्णनानि   रूपकालङ्कारभूयिष्ठानि रसवत्पद्यानि रचयामः |

Two important festivals, Krishna Janmashtami and Ganesha Chaturthi are celebrated in this month. We shall celebrate the same by composing verses describing the wonderful and inexhaustible pastimes of krishna or ganesha. The verses should consist rUpaka/metaphor as the main figure of speech.

  30 Responses to “पद्यपाने संस्कृतपद्यमासः २४ : अलङ्कारयुतवर्णनम् ।”

  1. बहोः कालात्पूर्वं कदाचिदाशूक्तमिदमवधानसभायां श्रीकृष्णवैषयिकं पद्यम्।
    अत्र तु ग्रीष्म एव दुश्शासन इति भूरेव द्रौपदीति सजलजलद एव वासुदेव इति सावयवरूपकप्रसक्तिरास्ते। तथा श्लेषलेशोsपि विद्यते। तदिदं मन्दाक्रान्तावृत्तनिबद्धं रसिकेभ्यः प्राभृतीकुर्याम्।

    कर्षत्युग्रः खरतरकरैर्ग्रीष्मदुश्शासनोsसौ
    भूपाञ्चाल्या हरितवसनं सालबाहाभिगुप्तम्।
    जीवत्वार्तां सपदि सरसः कृष्णमेघस्तु पातुं
    घ(ध)र्मग्लानिक्षरणचरणोsभ्येत्यनन्यावतारः॥

    एतदपि सावयवरूपकरञ्जितं श्लेषाश्लेषलिप्तं च किञ्च पृथ्वीवृत्तनर्तितं पद्यम्। अत्र शब्दालङ्कारोsपि भूयानिव भासते। तदिदमिदमिदानीं प्रसूतमिति सादरं सहर्षं च समर्पये।

    क्वणत्प्रणवघण्टिकाघटितकन्धरः कंधर-
    त्विषां सुषममोषणस्फुरणवर्ष्मवर्णोज्ज्वलः।
    तुषारगिरिजाटवीपटलिकाटनास्फोटनो
    लुनातु कुहनागजो व्यसनवंशमारान्मम ॥

  2. क्षन्तव्योsहं स्खलिताय। मम पूर्वनिवेदितं पृथ्वीवृत्तवल्गितं पद्यं विघ्नेश्वरवैषयिकमिति कथयितुं विस्मृतं मया।

    • If you had not thus clarified, and if we would have made a calculated guess that it was in praise of Lord Vighneshvara, then…
      ಆವ ಪದ್ಯಕುಂ ವ್ಯಾಖ್ಯೆಯೇನನುಂ ಪೇಳೆ ಶಕ್ಯರೈ ನೀಂ
      ತಾವು ಪೇಳುವನ್ನೆಗಮುಮೇನನುಂ ತಿಳಿಯಲಾರೆವೈ ನಾಂ|
      ಭಾವಮದುಮೆ ನಿಲ್ಲುವುದು ತಾವು ಸೊಲ್ಲಿಪುದೆ ಶಂಕಿಸುಗುಮೇಂ
      “ದೇವಗಣಪವೈಷಯಿಕ”ಮೆನ್ನೆ ನಾ”ಮಪ್ಪನವನದೆಂ”ಬೈ||

  3. खलदावानलनाशी
    सुजनमयूरप्रमोदनर्तनदायी ।
    श्रीकृष्णकालमेघः
    संजातो देवकीयगर्भसमुद्रात् ॥

    • खलदावानलनाशी
      सुजनमयूरप्रमोदनर्तनदेशी ।
      श्रीकृष्णकालमेघः
      प्रादुरभूद् देवकीयगर्भसमुद्रात् ॥

      नर्तनं दिशति इति नर्तनदेशी ।

      • परमसुन्दरी पदपद्धतिः, आर्याजातिनिर्वाहस्य हृद्या कापि विच्छित्तिः।

        • आर्यस्य सन्तोषणेनार्येयं धन्या 🙂

        • This verse perfectly conforms to kaMdapadya structure. What is the difference between kaMda (skandaka in Sanskrit?) and AryA?

          • Absolutely no difference. aaryaa geetee or skandhaka has become khanda-a(ya) in praakRta and this is kanda in Kannada and Telugu.

  4. कर्तुं नार्हामि पार्थक्यं मध्ये कृष्ण-(रा.)गणेशयो:।
    युगान्तरस्थितं कृष्णं पश्याम्यद्य नवाकृतिं॥

    • हरि हरि!!…..किमिदमत्याहितम्!!…..क्व मे स्वामी परमेष्टदैवतं भगवान् श्रीकृष्णः? क्वाहं वराकः?……..अपचार एव घटितः….

      • ವಾ ಭವಾನ್ (ವಿದ್ಯಾಗುರುಃ), ವಾ ಶ್ರೀಕೃಷ್ಣಃ – ಅಸ್ಯ ಪದ್ಯಸ್ಯ ಕಾರಯಿತವ್ಯಃ ಕಃ? 😉

  5. नानाभावपयस्विनीप्रभवभूर्मार्गश्च गम्य‍: पुन:
    साकारोsसि हरे त्वमेव सततं सर्गानुसन्धानयो: |
    नव्यादर्शविचारचारुचरितोद्याने विलासे रत:
    मर्यादेति ततश्च जीवनविधौ लोका विजानन्ति भो: ||

    Krishna, you are the birth place for river-like various moods of life, the path and the aim. In the garden of fresh ideals, thoughts and practices you played and showed yourself to be following what you created anew. The world knows you to be the ultimatum in the ways of life.

    • सुन्दरमेव पद्यम्। किञ्च नात्र रूपकालङ्कारविलसितं तरां जागर्ति। कृपया भवानितोsपि स्फुटप्रतिनवालङ्कारकलितं पद्यं प्राभृतीकरोत्वित्याशासे।

      • अहो, विस्मृतमाचार्य। पुन: प्रयतिष्ये। धन्यवादा:।।

        • ’पुन: प्रयतिष्ये’ – विस्मर्तुं किं?

          • भवत्समा वीथिरम्पाः किञ्चिदपि प्रयच्छन्ति नैवावकाशं विस्मर्तुं किल। 🙂

  6. न्यायान्यायपयःकृपीटकलिते सुस्पष्टनिर्धारधीः
    चेतोहारिविचारभुक्तिरसिकश्श्रीकृष्णहंसस्सदा ।
    द्वन्द्वध्वस्ततरङ्गरङ्गरचिते मच्चित्तवारान्निधौ
    कुर्याद्वासमतर्क्यतर्कसमये सद्बोधयन्मां स्वयम् ॥

  7. वर्षादुर्दिनदुस्तराब्धितरणौ वाणीविलासालयौ।
    व्यासान्तःसलिलारविन्ददिनपौ वृन्दारकाब्ध्यब्जजौ।
    विश्वेशास्यरहस्यहासकिरणौ विघ्नाद्रिवज्रावुभौ।
    वन्दे तौ व्रजहैमशैलतरलौ वृष्णीशयूथेश्वरौ।।

    A 2 in 1 verse about both Krishna and Ganapathi with roopakas in the usual vikreeDita. Please give your feedback.

    yUtha – gaNa
    vRindaaraka – deva

  8. गौरीदेहपयोर्णवोद्भवशशिर्वात्सल्यसच्चन्द्रिका-
    दाने चित्तचकोरलालनमभूत् तत्सुन्दरास्येन्दुना ।
    हर्षोत्कर्षतरङ्गिताम्बुधिमना देवा महेशादयः
    हेरम्बश्शशिरोधभावचरितो वैचित्र्यमेतत् खलु ॥

    The moon taken birth from the ksheerasagara-like body of gauri, his chitta-chakora grown in her feeding of moonlight-like love, having his moon-like face making shiva etc. dwelve in the ocean of joy, Ganesha somehow carries hatred against chandrama.

  9. लोकभुक्तिलालसाविरक्तिसम्पदाखिल-
    प्राप्तभक्तरक्तिरक्तवस्त्रभूषितं वरम्।
    विश्वभावनक्रियारजस्तनुप्रकाशनम्
    विघ्नशक्तिकुध्रभङ्गवज्रचित्तमाश्रये॥

Leave a Reply to ganesh R. (रागः) ರಾಗ Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)