Jan 112016
 

समस्यापादस्तु विनीलमल्लीस्रगियं विभाव्यते इति | भवेन्न नीलमल्लिकापुष्पमित्यत्र समस्यायाः हेतुः | अवधानिवर्येण गणेशेन कृतमिदं परिहारद्वयम् |

जगत्त्रयीचातकचेतनोर्जितं घनाघनच्छायमुदीक्ष्य कृष्ण ते |
वपुस्समालं कविभिर्मनोहरं विनीलमल्लीस्रगियं विभाव्यते ||

महेन्द्रनीलाश्मविनिर्मिताग्रतश्चकास्ति मूर्तिः किल शिल्पिशीलिना |
तदीयकण्ठार्पितचित्रचित्रिला विनीलमल्लीस्रगियं विभाव्यते ||