Apr 142016
 

संस्कृतवाङ्ग्मये प्रसिद्धाः पूर्वकविप्रशस्तयः | कृतवन्तः कवयस्सर्वे स्वेषां काव्यमुखे च | विविधसुभाषितसंग्रहे पूर्वकविप्रशस्तयः इति विभाग एव पृथक्कृतः | ऋतावस्मिन् वसन्ते तत्संप्रदायवृक्षं पुनरुत्फुल्लयितुं नूतनकवितया दोहदं कारयामः |