Jul 302014
परिसंख्यायुतां स्मृत्वा भट्टबाणस्य भारतीम् |
अधुना पद्यमासेऽस्मिन् कुर्म उद्यानवर्णनम् ||
परिसंख्यालङ्कारं उपयुज्य उद्यानवर्णनं कुर्मः| सन्त्यनन्तोदाहरणानि बाणभट्टस्य कादम्बर्याम् |
परिसंख्यायुतां स्मृत्वा भट्टबाणस्य भारतीम् |
अधुना पद्यमासेऽस्मिन् कुर्म उद्यानवर्णनम् ||
परिसंख्यालङ्कारं उपयुज्य उद्यानवर्णनं कुर्मः| सन्त्यनन्तोदाहरणानि बाणभट्टस्य कादम्बर्याम् |
Raghavendra, you mean सन्त्यनन्तोदाहरणानि?
yes will correct it 🙂
परिसङ्ख्यायुता सा का भट्टबाणस्य भारतीः।
यां स्मृत्वा पद्यमासेऽस्मिन् कुर्म उद्यानवर्णनम् ||
sankhyaanam parisankhyaayaah drutam datvaa vimochaya
padyamekamudaahrutya tvadbaanatrasta chinmayam
lekhane devanaagaryaah saadhanam kim yaduttamam
kathyataam kaavyakartaaro dhanyavaadaanvadaamyaham
कीदृशो मूलतन्त्रांशस् त्वत्सङ्गणकयामकः?
लैनक्सि यदि शारण्यम् ऐबस्-यन्त्रं प्रयुङ्क्ष्व भोः॥
[ibus on linux. मूलतन्त्रांशः = OS]
परिसङ्ख्या बुधैरुक्ता सोदाहरणलक्षणा।
धवलेन यथाऽदर्शी-क्षस्व पद्यधुरन्धर॥
http://www.sanskritworld.in/pages/detail/pagename/alankara
रसः पाके न, पुष्पेषु मित्रगोष्ठौ सुभाषिते।
विहरत्सुन्दरीकाये चैवं वनं सुधामयम्॥
घोषो न दम्भात् विहङ्गाद्धि नूनं
निन्दा न शिष्टात् हरिभ्यो हि यत्र।
पीडा न हृद्दारणात् तत्र दाहात्
याने शरण्यं वनं तन् नमामि॥
दा दा द दा दा द दा दा द दा दा इति संश्रयश्रीः।
[शोधनम् – विषमपादान्ते लघोः निष्कासनम्।]