The groups of lovelorn damsel-fish, long desirous of viewing the faces of their beloved, are captured by the Cupid, riding the boat of the gentle breeze, by the well spread net of moonlight.
Seeing her daughter Earth suffering from fever (because of the day’s heat), Mother Night rained the effulgent medicine of that Lord of Herbs, moonlight.
The camphor-white Shiva and the best of rivers (Ganga), gave the light out of their bodies to the lovely moon out of love. He reflects it and shines fully at night.
अहो साध्वी नवीना च काचिदभिरामकल्पना। किं च कौमुदीतिस्त्रीलिङ्गैकवचनरूपस्य वाचकस्य हस्ता इति पुंसि बहुवचनेन च व्यवहारोsलङ्कारिकसमये दुष्यति। अत एवं परिष्क्रिया भाव्या।
In the evening when the Sun set, the Earth became sad and dull. To make her happy with his rays, the playful but dirty moon (dirty because he was probably playing somewhere in the dirt like all children, dirty because of the kalanka) appeared in the sky. The Earth wipes his face with her waves (in an attempt to clean him).
ವಲ್ಲಿಕಾಯದೆ ಮೊಗ್ಗು ಮೈಬಿರಿದಂದು ನಕ್ಕವೊಲಂದದಿಂ
ಚೆಲ್ಲಿ ಕಾಂತಿಯ ಷೋಡಶಂ ತನುವೆತ್ತಿ ನಿಂದಿರಲಬ್ಧಿಯಿಂ,
ಮೆಲ್ಲನೇಳ್ಗೆಯನುಂಡ ತಾಯ್ಬಗೆ ಚಿಮ್ಮಿತೈ ಬಲು ಹರ್ಷದಿಂ
ಪುಲ್ಲಮಾದುವು ಚಿತ್ತಗಳ್ ಭವಭೂಮಿಯೊಳ್ ವಿಧುಮಾಯೆಯಿಂ
(since the subject is nice, I felt like writing. Excuse me for writing kannada padya in Sanskrit section 🙂
वृकानन्दजबाषाणां मार्जनाय कृतं पटम्।
कौमुदीमिन्दुना मन्ये स्वत्वगुत्कर्तनोद्भवम्॥
[वृकाणां चन्द्रदर्शने महानन्दो भवतीति विषयः। प्रस्तुते पद्ये परस्परप्रीतिरियं वर्ण्यते।
वृकाणाम् आनन्दजाः बाष्पाः निपतन्ति चन्द्रदर्शने। तन्मिमार्जिषया तीव्रया कौमुदीरूपां पटीं स्वधवलत्वच उत्कर्तनेनैव सृष्ट्वा प्रयुङ्क्ते चन्द्रः इति उत्प्रेक्ष्यते।]
http://images5.fanpop.com/image/photos/28600000/Wolf-Moon-fantasy-28637592-1920-1200.jpg
प्रायेण सुदुर्बोध्यमिदं पद्यं विना व्याख्याविशेषेण विशेषतः। तथापि काचिदभिनवा कल्पना चकास्तीति मनो मम लगत्यत्र। किं तु केचन परिष्कारा अत्र समर्हन्ति। यथा:
…………………….बाष्पाणां ………..कृतां पटीम्। (उपमानोपमेययोर्लिङ्गैक्यविधिपालनार्थं पटः पटी जातः)
(यद्यपि तुरीयः पादः पदशास्त्रदृशाsनवद्यस्तथापि पद्यशिल्पसामग्र्यदिशा सरलः स्यादिति मे मतिः)
प्रिय गणेश, उद्धरसि मां कृतज्ञं स्वटिप्पणीभिः – नान्यथा दोषान् जानीयाम्।
विवरणं लगितवान्।
प्रियाननालोकचिरोत्सुका वै
समीरनावेन मनोभवेन ।
वियोगिनीमत्स्यगणा गृहीता
जालेन चन्द्रातपविस्तरेण ॥
The groups of lovelorn damsel-fish, long desirous of viewing the faces of their beloved, are captured by the Cupid, riding the boat of the gentle breeze, by the well spread net of moonlight.
कल्पना तु रसिकमनोहारिणी। परन्तु व्याकरणमत्र किंचिदिवावधेयम्। यतो हि वियोगिनीमत्स्यगणस्तु न पुंसि युज्यते; अत्र तु वियोगिनीमत्स्यततिः इति प्रयोक्तुमलम्।
“वियोगिनीमत्स्यगणस्तु न पुंसि युज्यते” इति किमर्थम्? कृपया स्पष्टीकरोतु।
वियोगिन्यस्रियः किल, तासां सादृश्यं मत्स्यगणापेक्षया मत्स्यततौ युज्यत इत्यालङ्कारिकसमयमादृत्यैव परिष्क्रियेयं विहिता मया।
सुष्ठु बोधितम्।
दिनतप्तां सुतां वीक्ष्य भूमिं माता विभावरी ।
ओषधीशौषधेर्धारां ववर्ष कौमुदीं सिताम् ॥
Seeing her daughter Earth suffering from fever (because of the day’s heat), Mother Night rained the effulgent medicine of that Lord of Herbs, moonlight.
सखे राघवेन्द, नूनमिदं पद्यं रसपिपासूनां निपानयोग्यं सारस्वतसुधासवमेव सूते।
सायं सौरै रङ्गैस् स्पर्धा कौमुदि वृथाऽस्ति ते पश्य।
पाटलमुख्या वर्णाश् शीघ्रं धावन्ति तेह्युदये॥
चित्रम् कल्पनीयम् – पूर्णचन्द्रोदये पूर्वे जाते पश्चिमे सूर्यास्तः।
रुचिरेयमार्या तमामवहति चेतांसि चारुचर्याचणानाम्।
सुधीः विदग्धभाषणचण, “तमामवहति” इति किम्?
kShamyataaM, tattu “tamaaM aavahati” iti syyaat. TaMkanapramaadaH samaapatitaH.
कौमुदीक्षीरधिं शुक्लं सदा सोमाय मथ्नतः|
आकाशगङ्गया रज्ज्वा पूर्वोत्तरसुरासुरौ ||
The east-gods and west-demons,
Churn the ocean of moonlight-milk,
With the rope of the milky-way
To obtain the moon-nectar.
अनवद्या हृद्या च भवदभिनवकल्पनानुप्राणिता कविता। सखे सुहास, स्वागतं पद्यपानाय। अद्यावधि भवन्तं न व्यलोकि मयात्र प्रायेण। प्रथमप्रणयत्वेन पुनश्च भूयोsपि स्वागतं ते। इतः परं भवन्तं वारं वारं पश्येम पद्यपानीयपद्यपद्धतौ सपथिकरूपेण।
धन्यवादः, गणेशवर्य ! 🙂
कर्पूरगौरस्य महेश्वरस्य
सरिद्वरायाश्च वपुप्रकाशं ।
स्नेहेन दत्तं प्रतिबिंबयन् वै
वामो विधुः संप्रतिभाति रात्रौ ॥
The camphor-white Shiva and the best of rivers (Ganga), gave the light out of their bodies to the lovely moon out of love. He reflects it and shines fully at night.
साधु सुशीले श्रीललिताभगिनि, पद्यमिदं सुन्दरं सुरुचिरं च। परं तु वपुश्शब्दस्य सकारान्तत्वादत्र “वपुःप्रकाशम्” इति भवेत्। तथा चान्ते वै इति निपातस्य स्थाने ’वा’ इतोsपि स्वारस्यकरं भवेत्।
Thank you Sir. I have made the corrections below.
कर्पूरगौरस्य महेश्वरस्य
सरिद्वरायाश्च वपुःप्रकाशं ।
स्नेहेन दत्तम् प्रतिबिंबयन् वा
वामो विधुः सम्प्रतिभाति रात्रौ ॥
क्षयरोगापनोदाय विचिन्वन्नौषधं विधुः ।
चन्द्रिकादीपिकालोको याति विष्णुपदाध्वना ॥
ಇದೇ ಕಲ್ಪನೆಯನ್ನಿಟ್ಟುಕೊಂಡು ಕನ್ನಡಪದ್ಯವನ್ನು ಹಿಂದೆ ರಚಿಸಿದ್ದೆ. ಅದರ ಭಾವಾನುವಾದವೀ ಪದ್ಯ.
अत्यन्तं सुन्दरं पद्यम्। अस्य कर्णाटमूलत्वात् कन्नडभणितिः स्थाने किल मान्यतां ययौ।
धन्योऽस्मि 🙂
निशयात्तात् क्षीरमया-
च्छशाङ्ककुम्भात् कलङ्करन्ध्रेण ।
निष्यन्दिनीः समन्तात्
स्वदामहे कौमुदीपयःकणिकाः ॥
श्रीहर्षीयमियं भव-
दार्या धार्या सतां सदा हृदये।
यस्याः पायं पायं
रसं सुधांशोस्सुधापि रसरहिता॥
श्रीमन् ! श्रीहर्षीयमित्यस्य पदस्याभिप्रायो नावगतः । किमसौ कल्पना श्रीहर्षेण कृतचरेति ?
अविहा! नायं ममाभिप्रायः। केवलं श्रीहर्षीयं विलक्षणकल्पनविधानं विचित्रमार्गं च स्मारयतीति मत्तात्पर्यम्। सर्वथा ममोक्तिस्तु स्तुतिः।
भवदीयं वचनमिदं
मनसो वितनोति धन्यताभावम्: -)
अन्यदपि पद्यम्:
(नात्र मुख्यवस्तु कौमुदी, क्षन्तव्योऽयं जनः)
मञ्चे राजन्या रुदतीन्दुबाला
तारागणान्नश्रुकणान् लुठन्ती |
सामन्तदिग्विस्तृतकान्तिकेशा
प्रतीक्षमाना सवितुः निवृत्तिम् ||
The moon-maiden rolls on her sky-bed
Her moonlight-hair scattered in all directions
Crying star-tears,
In wait for the return of the Sun.
“अन्यदपि” इति साधीयान् खलु?
साधु सूचितमार्य, कथमपि स्खलिता वाणी |
अन्यदित्यत्र को वा दोषः? न मया ज्ञायते; उच्यतां कृपया वयस्य विश्वास!
कल्पनात्वत्र सुतरां साधीयसी परमस्मिन् पद्ये सन्त्यन्ये केचन व्याकरणालङ्कारशास्त्रीया दोषाः ; तेषां यथामति मार्जनमत्र विधीयते :-
दिशान्तविश्रान्तनिशीथकेशः
पयोदमञ्चे रुदतीन्दुबालः।
तारासमूहाश्रुकणान्वितास्यो
मार्तण्डतातागतिसंदिदृक्षुः ॥
अस्य परिष्करणविधानं तथा गुणदोषविवेचनं मया सह दूरवाण्या ज्ञतुमलम्।
सुन्दरस्ते परिष्कारः।
पूर्वं वयस्येन सुहासेन “अन्यमपि पद्यम्” इति लिखितम्, तत्र “अन्यदपि” इति शोधनं सूचितम्।
सा कौमुदीति दोषो
निद्रां हर्तुं प्रसारिता हस्ताः।
सहृदयचित्तान्यत्र
प्रमाणमद्धा! प्रदास्यामः॥
विवरणम् – सा कौमुदीति (विचारः) दोषः। किमर्थम्? कौमुदीति प्रतीयमानास् तु वस्तुतः निद्रां हर्तुं प्रसारिताः हस्ताः। किमत्र प्रमाणम्? सहृदयानाम् चन्द्रेन हृतचेतसां चित्तानि।
अस्यार्थो न मे स्फुरति। कृपया बोद्धव्योsयं जनः। अन्यच्च दोषो इति स्यात्पद्यस्य प्रथमे पादे।
प्रिय गणेश। अपह्नुतौ प्रयत्नः कश्चन कृतः। अधुना “दोषो” इति परिष्कृत्य विवरणमपि युक्तम्। कृपया परीक्षताम्।
अहो साध्वी नवीना च काचिदभिरामकल्पना। किं च कौमुदीतिस्त्रीलिङ्गैकवचनरूपस्य वाचकस्य हस्ता इति पुंसि बहुवचनेन च व्यवहारोsलङ्कारिकसमये दुष्यति। अत एवं परिष्क्रिया भाव्या।
चन्द्रातप इति कश्चि-
न्निद्रां हर्तुं प्रसारितः करवारः।
सहृदयचित्तान्यत्र
प्रमाणमद्धा मनीषितं ह्यस्माकम्॥
सुष्ठु शोधितम्!
One more –
सायं रवावस्तमिते विषण्णाम्
अम्बां करैर्मोदयितुं सहेलः ।
आयाति खे कर्दमितः सितांशुः
साप्यूर्मिभिर्मार्ष्टि धरास्य वक्त्रम् ॥
In the evening when the Sun set, the Earth became sad and dull. To make her happy with his rays, the playful but dirty moon (dirty because he was probably playing somewhere in the dirt like all children, dirty because of the kalanka) appeared in the sky. The Earth wipes his face with her waves (in an attempt to clean him).
अत्युज्जवलं स्मारयतीह पद्यं
शब्दागमाचार्यवरस्य काव्यम्।
यत्रोपजात्यां दिवसात्ययस्य
व्यावर्णनं पाणिनिराश्वकार्षीत्॥
(भगवतः पणिनापत्यमुनेर्जाम्बवतीजयकाव्यगतं सूर्यास्त-चन्द्रोदयवर्णनमत्र प्रस्तुतम्।)
ವಲ್ಲಿಕಾಯದೆ ಮೊಗ್ಗು ಮೈಬಿರಿದಂದು ನಕ್ಕವೊಲಂದದಿಂ
ಚೆಲ್ಲಿ ಕಾಂತಿಯ ಷೋಡಶಂ ತನುವೆತ್ತಿ ನಿಂದಿರಲಬ್ಧಿಯಿಂ,
ಮೆಲ್ಲನೇಳ್ಗೆಯನುಂಡ ತಾಯ್ಬಗೆ ಚಿಮ್ಮಿತೈ ಬಲು ಹರ್ಷದಿಂ
ಪುಲ್ಲಮಾದುವು ಚಿತ್ತಗಳ್ ಭವಭೂಮಿಯೊಳ್ ವಿಧುಮಾಯೆಯಿಂ
(since the subject is nice, I felt like writing. Excuse me for writing kannada padya in Sanskrit section 🙂
ಒಳ್ಳಿತಾದುದು ಪದ್ಯಮಂ ವರಮಲ್ಲಿಕೋತ್ತರಮಾಲೆಯೊಳ್
ಬಳ್ಳಿಗಾದವೊಲಿಮ್ಮಲರ್ ನುಡಿದಿರ್ಪಿರೌ ನಲವಿಂದೆ ನೀಮ್|
ಕೊಳ್ಳಿಮೆಂದು ಕವಿತ್ವಮಂ ಸೊಗಸಾಗಿ ಪೇಳ್ವೊಡೆ ನೇಹದಿಂ
ಕೊಳ್ಳೆವೇಂ? ಸಕ್ಕದಕ್ಕಿದು ದಕ್ಕದೇಂ? ಸಿರಿಗನ್ನಡಂ ಸರಿಯಪ್ಪದೇಂ?
🙂 ಧನ್ಯವಾದಗಳು,
कार्यमेघैः प्रवासादिधूम्रवातैर्निवारितः ।
अस्नात्वा पद्यकौमुद्यां यते मासानु संगमे ॥ १ ॥
जडः सन् कौमुदीं कृत्वा निशेशो याति गौरवम् ।
अनुकृत्य भवत्पद्यप्रभां यानि नु पात्रताम् ॥ २ ॥
(निशेशः चन्द्रः स्वयं जडः सन्नपि सूर्यप्रभावेण कौमुदीं कृत्वा गौरवं याति । तथा भवतां पद्यप्रभाम् अनुकृत्य अहमपि पात्रतां यानि प्राप्नुयाम् । )
एकस्य कौमुदीपूताः कवयेयुर्यदीदृशम् ।
चन्द्रयोर्मङ्गले दद्युःमहाकाव्यं दिने दिने ॥ ३ ॥
(भूमौ विद्यमानाः कवयः एकस्य चन्द्रस्य कौमुदीम् अनुभूय विभिन्नप्रकारेण कवयन्ति । कौमुदीमपि नानाप्रकारेण चित्रयन्ति । एवं सति, मङ्गले विद्यमानाः कवयः नित्यं चन्द्रौ दृष्ट्वा प्रतिदिनमपि महाकाव्यं दद्युः।)
यानसंमर्दनिर्धौतो दिनान्ते पत्न्या यथा ।
सवित्रातपसंतप्तः शान्तश्चन्द्रिकया तथा ॥ ४ ॥
(यानसंमर्दः मार्गेषु वाहनाधिक्यम् )
रविकान्तिविकासाय ज्योत्स्ना भवति निष्फला ।
याथातथ्यप्रबोधाय व्यङ्ग्यसंलिप्तवाक् तथा ॥ ५ ॥
(यानि पुष्पाणि सूर्यकान्त्या विकसन्ति तेभ्यः कौमुद्याः न प्रयोजनम् । तथैव सूक्ष्मवचनम् अवबोद्धुं ये न प्रभवन्ति तेषां कृते व्यङ्ग्यं निरर्थकम् ।)
अज्ञानपतितायासौ गुरुदृष्ट्याः कृपा यथा ।
भ्रष्टाय तिमिरे शैले तनुते कौमुदी तथा ॥ ६ ॥
निशाभर्ता पचेत् प्रीत्या ज्योत्स्नादर्व्या मृदोदनम् ।
सेचं सेचं तुषाराद्भिर्निशान्ते ज्ञायते फलम् ॥ ७ ॥
(Here kaumudi is thought of as a ladle)
कलयन् कौमुदीखड्गं निशारणे निशाकरः ।
तुषाररुधिरैः पूर्णं कुरुते प्रतिपल्लवम् ॥ ८ ॥
(kaumudi as a khaDga)
आवृणोति नभः सर्वं ज्योत्स्नापटो नु गोपयन् ।
इन्दुं दूषयति द्रष्टुं नक्षत्राणि तदुत्सुकः ॥ ९ ॥
(ज्योत्स्नापटः सर्वं नभः गोपयन् आवृणोति नु ! नक्षत्राणि द्रष्टुम् उत्सुकः (कश्चित्) इन्दुं दूषयति ।)
(kaumudi as a cloth covering the sky)
ज्योत्स्नाकरपरामर्शैः चन्द्रः सान्त्वयतीव गाम् ।
भर्तादिमो हि पापीयान् प्रियां तापयतीदृशम् ॥ १० ॥
(इन्दुः ज्योत्स्नाकरस्पर्शैः गाम् भूमिं सान्त्वयति इव । आदिमः भर्ता सूर्यः एव पापीयान् यतः सः प्रियां भूमिम् एवं तापयति ।)
(kaumudi as chandra’s hand)
दिनाय लिखितं पत्रं कौमुदी यत्र लेखनी ।
तथाभाति प्रतिज्ञातं शासकानां नु वागपि ॥ ११ ॥
(कौमुदीं लेखनीं कृत्वा पत्रं दिनाय यत् लिखितं भवेत् तथा आभाति शासकानां वाचा कताः प्रतिज्ञाः । तन्नाम दिने न दृशन्ते इति भावः ।)
(kaumudi as a pen)
नरेशवर्य! पद्यानि हृद्यानि तव धीमतः।
प्र्त्यग्रकल्पनाजुष्टान्यहो मोदं वितन्वते॥
पद्यं तृतीयं परमं मनोज्ञं तथैव रम्यं किल पञ्चमं ते।
रसोज्ज्वलं सप्तममप्युदारं तथाष्टमं तन्नवमं च हृद्यम्॥
एकादशं सुन्दरमेव नूनं चित्तावहं वै दशमं त्वदीयम्।
चतुष्टये छान्दसशुद्धिरिष्टा ’पट’प्रयोगो नवमे च चिन्त्या॥
अप्रस्तुतप्रसङ्गस्यास्य क्षमां याचमानः किञ्चिदिह प्रवर्ते 🙂 सर्वेभ्योऽपि गीताजयन्त्याः शुभाशयाः ।
पूर्वं विष्णुर्भवशरनिधेर्मानुषानुद्दिधीर्षुः
सृष्टां चक्रे परमपदतः स्वर्धुनीं तीर्थरत्नम् ।
तत्सम्प्राप्तिर्न समसुकरेत्यात्तचित्तः स पश्चाद्
गीतातीर्थं सकलसुलभं वाहयामास वक्त्रात् ॥