Nov 102015
 

जालस्थानेऽस्मिन् संस्कृतविभागे अपूर्वदृष्टं प्रहर्षिणीछन्दः| समस्यापादमधुना “राधायां रतिमुपयाति रेवतीशः” | रेवतीशः बलरामः कथं कृष्णप्रियायां राधायां रतिमुपयातीति भागवतपुराणकथाकुठारप्राया समस्या |

  3 Responses to “पद्यपाने संस्कृतपद्यमासः २६ : समस्यापूरणम् :: राधायां रतिमुपयाति रेवतीशः”

  1. लोलाक्षः क्वचिदपि वारुणीप्रभावाद्
    राधायां स्खलितपदक्रमः पपात ।
    तद्धेतोः परिचरति स्म किंवदन्ती
    राधायां रतिमुपयाति रेवतीशः ।।

  2. कोपेन प्रणयकृतेन सीरपाणेः
    कुर्वत्यां बहुविधनिन्दनं वृथैव।
    पत्न्यां स्वस्य यदुकुलप्रभुः कृताप
    राधायां रतिमुपयाति रेवतीशः॥

    प्रणयकृतेन कोपेन सीरपाणेः (बलरामस्य) बहुविधनिन्दनं कुर्वत्यां कृतापराधायां स्वस्य पत्न्यां रेवतीशः रतिमुपयाति।

  3. वर्षायां हृदयरतेःप्रियं मुखाब्जं
    सौन्दर्यं नयनरमं समीक्षितुं नः।
    साहाय्यं हि जनयतीति कृत्यबुद्ध्या
    राधायां रतिमुपयाति रेवतीशः

    रेवतीशः= चन्द्रः। राधा = विद्युत् ।रतिः= सहजप्रीतिः।

Leave a Reply to ಸೂರ್ಯ ಹೆಬ್ಬಾರ Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)