Dec 082015
मासेऽस्मिन् कविशङ्करार्येण दत्तं वस्तु प्रभातवर्णनम् | श्लिष्टरूपकालङ्कारभूयिष्ठानि अथवा दृष्टान्तालङ्कारभूयिष्ठानि पद्यानि रचयामः |
मासेऽस्मिन् कविशङ्करार्येण दत्तं वस्तु प्रभातवर्णनम् | श्लिष्टरूपकालङ्कारभूयिष्ठानि अथवा दृष्टान्तालङ्कारभूयिष्ठानि पद्यानि रचयामः |
दिवाध्यक्षस्सूर्यः प्रसरति जगत्यां बहुनुतः
दिशा पूर्वा धन्या खलु जनयति द्योतपुरुषम् ।
सदैवं तां लोकः प्रणमति पराभक्तिसहितः
लसच्छीलख्यातप्रभवकरणीं को न मनुते ।।
The sun, the much praised one, flourishes himself in the world with his deeds. So fortunate one is the poorva-disha, as she bore such a shining personality and thus whole world salutes her. Who in this world does not respect a mother giving birth to virtuous ones?!
Not sure if this is drushTANtaalankaara 🙂