Jan 112016
 

समस्यापादस्तु विनीलमल्लीस्रगियं विभाव्यते इति | भवेन्न नीलमल्लिकापुष्पमित्यत्र समस्यायाः हेतुः | अवधानिवर्येण गणेशेन कृतमिदं परिहारद्वयम् |

जगत्त्रयीचातकचेतनोर्जितं घनाघनच्छायमुदीक्ष्य कृष्ण ते |
वपुस्समालं कविभिर्मनोहरं विनीलमल्लीस्रगियं विभाव्यते ||

महेन्द्रनीलाश्मविनिर्मिताग्रतश्चकास्ति मूर्तिः किल शिल्पिशीलिना |
तदीयकण्ठार्पितचित्रचित्रिला विनीलमल्लीस्रगियं विभाव्यते ||

 

  17 Responses to “पद्यपाने संस्कृतपद्यमासः २८ : समस्यापूरणम् :: विनीलमल्लीस्रगियं विभाव्यते ।”

  1. अत्र द्वौ टङ्कनप्रमादौ स्थ इति भाति। प्रश्नस्यादौ समस्यापाद इति स्यात् । तथा मम द्व्तीयपूरणस्यादौ “महेन्दनील…..” इति स्यात्।

  2. उलूखलाबद्ध-कटेर्-मनस्विनः
    बालस्य नेत्रोद्-गलितोद-बिन्दुभिः ।
    सकज्जलैः कार्ष्ण्यम्-अवाप्य गन्धिनी
    विनील-मल्ली-स्रगियं विभाव्यते ॥

    ಒರಳಿಗೆ ಕಟ್ಟಲ್ಪಟ್ಟ ಆಟವಾಡುವ ಹುಡುಗನ ಕಣ್ಣಿಂದ ಹರಿದ, ಕಾಡಿಗೆಯಿಂದ ಕೂಡಿದ ನೀರಿನಿಂದ ಕಪ್ಪಾದ ಮಲ್ಲಿಗೆಯ ಮಾಲೆಯು ಶೋಭಿಸುತ್ತಿದೆ.

    • ತುಂಬ ಚೆನ್ನಾಗಿದೆ ಮೇಡಮ್ 🙂

    • ಇವು ಯಾವ ಛಂದಸ್ಸುಗಳು? ಉಪೇಂದ್ರವಂಶ, ಉಪಜಾತಿವಂಶ ಅಂತನಾ?

    • नितरामुदारा भवन्मनोज्ञकविता। परिहारक्रमश्च सुतरां चमत्कारकः। किञ्च “बालस्य नेत्राद्गलितोदबिन्दु….” इत्यत्रैकवचनापेक्षया “नेत्रोद्गलितोद…” इति समास एव समुचित इति मन्ये। यतो सामान्यतो ह्यश्रूणि नेत्रद्वयनिस्सृतानि भवन्ति ननु।
      नीलकण्ठमहोदय! पद्यबन्धोsयं करम्बजातिरिति विश्रुतः। अत्र प्रायेण वंशस्थ-इन्द्रवंशयोरेव यदृच्छामिश्रणं दृश्यते।

      • गुरवे गणेशाय अनेक-धन्यवादाः । “उद्गलित” इति प्रयोक्तुं शक्यते इति न स्फुरितमेव । तथैवेदानीं परिवर्तितमस्ति पद्यम् ।
        नीलकण्ठवर्य, अनेकधन्यवादाः ।

  3. वने स्मरन्त्या गतमश्रुसिक्तया
    विविक्तया रासरसाभिलीनया ।
    तया प्रतीक्षातपतप्तया हरे!
    विनील! मल्लीस्रगियं विभाव्यते ।।
    This is a message conveyed by a Gopa pointing at Sri Krishna’s jasmine garland.

    She is alone in the forest, moist with tears, lost in the memory of the raasa. By her, Sri Raadhaa, who is tormented by the pangs of waiting, Hari! O Dark Hued One, this jasmine garland is imagined.

    The triteeya vibhakti everywhere caused some effort. Would like to hear feedback.
    Dhanyavaada.

  4. वासोऽपि मृद्भूषितसिद्धयोषितां यत्रापणा एव न सन्ति सर्वथा |
    दिवेऽत्र किं चित्रमिदं कवेऽधुना विनीलमल्लीस्रगियं विभाव्यते ||

    नीलकण्ठदीक्षितस्य “काञ्चनं यत्र मृद्भूते..” इति पद्येन प्रचोदितं पूरणमिदम् |

  5. ಗಲೇ ನತಾಙ್ಗ್ಯಾ ವಿರಹಾಸುಶೋಷಿತಾ
    ರುಷಾ ಚಲನ್ತ್ಯಾ ಗಲಿತಾ ಧರಾತಲೇ ।
    ಪ್ರಸಾದಯನ್ಮಾಧವಮೌಲಿಲಾಲಿತಾ
    ವಿನೀಲಮಲ್ಲೀಸ್ರಗಿಯಂ ವಿಭಾವ್ಯತೇ ।।

    ತಾಂತ್ರಿಕದೋಷೈಃ ದೇವನಾಗರ್ಯಾಂ ಟಙ್ಕನಂ ನ ಸಮಭವತ್. ಅತಃ ಕ್ಷನ್ತವ್ಯೋಯಂ ಜನಃ.

  6. प्रालम्बनाद्या हरिकण्ठदेशतस्तत्कान्तिसंक्रातिविधूतपाण्ङुरा
    उपादिशद्देवगुणस्यगौरवं विनीलमल्लीस्रगियं विभाव्यते

  7. गुर्वक्षरविषयं प्रबोधितवते गुरवे नीलकणठाय धन्यवादान् समर्पययामि ॥

Leave a Reply to ganesh R. (रागः) ರಾಗ Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)