Aug 112013
 

कर्णाटभाषायां आदिकविरिति प्रसिद्धस्य पम्पमहाकवेः पद्येन उद्धृतमिदं शार्दूलविक्रीडितवृत्तपादस्य अन्तिमभागं ‘संसारसारोदयम्‘ उपयुज्य संस्कृतभाषायां पद्यानि रचयामः |

This month we shall compose sanskrit verses in śārdūlavikrīḍita meter utilising the phrase ‘saṁsārasārodayam‘ taken from a verse written by pampa, famously known as ādikavi of kannada.

ಆದಿಕವಿ ಪಂಪನ ಶಾರ್ದೂಲವಿಕ್ರೀಡಿತ ವೃತ್ತದಲ್ಲಿರುವ ಪದ್ಯದಿಂದ ಆಯ್ದ ಭಾಗ ‘ಸಂಸಾರಸಾರೋದಯಂ‘ ಅನ್ನುವ ಪಾದಭಾಗವು ಸಮಸಂಸ್ಕೃತ ಕನ್ನಡದಲ್ಲಿರುವುದರಿಂದ ಅದನ್ನು ಉಪಯೋಗಿಸಿ ಕನ್ನಡದಲ್ಲೂ  ಆಸಕ್ತರು ಪದ್ಯಪೂರಣ ಮಾಡಬಹುದು.

  76 Responses to “पद्यपाने संस्कृतपद्यमासः २ : पद्यपूरणम् :: संसारसारोदयम्”

  1. दृष्टे यत्र हठादुदेति निटिले दृष्टिर्निबद्धानला
    स्पृष्टे यत्र वपुः स्पॄशन्ति शतशो दर्वीकरा भीकराः ।
    पीते यत्र च कण्ठपीठमयते क्ष्वेलेन किर्मीरतां
    तद्गङ्गाम्बु वदन्ति हन्त विबुधाः संसारसारोदयम् ॥

    • विरॊधव्यतिरॆकाभ्यां निन्दाभासेन सर्वथा ।
      संसारसारसर्वस्वं जगौ श्रीशङ्करो वरम् ॥

      नास्ति सांप्रतिकॆ लोके तेन तुल्यः कवीश्वरः।
      नास्ति तन्नुतिपात्रेण तुल्यः शर्वेण दैवतम् ॥

    • नूनं सोदर! तावकीनकविता गङ्गातरङ्गायते 🙂

    • रसाद्रं कुरुते वाणी शङ्करस्य मुखोद्भवा |
      मनस्तु रसतृष्णानां भूमिं भागिरतीव सा ||

  2. कान्ता कृत्स्नकुटुम्बकर्मकुशला कामानुगाः कुक्षिजाः
    कायः किञ्च कदर्थितामयकुलः कल्पस्थिराः किङ्कराः ।
    कंसारातिपदारविन्दकलना काव्यार्थमिश्राः कथा
    इत्येनं लभते कृती यदि जनः संसारसारोदयम् ॥

    • किं ते नास्ति कवे! मनागपि भरः संसारसारोदये ? 🙂

      • किं ते नास्ति कवे मनागपि भरः संसारसारो? दये !! 🙁

  3. [ आर्याछन्दस उच्चारणं श्रुत्वा रागं गणेशं नमन्।]
    विश्वे दर्शनपाटवेन किमृषाव् — उल्लङ्घ्य तान् संस्थितम्
    वन्दे दर्शनवर्णनोभयपटुं — काव्येश्वरीवाहनम्।
    तत्रापि ह्यवधानिनां कुलगुरुं — ग्राम्येषु शिक्षाकरम्
    सर्वेष्वार्षरसाभिमानजननात् — संसारसारोदयम्॥

    [पद्यस्यास्य उच्चारणसमये प्रतिपादस्यान्ते विरामस्वीकारात् तेषु अन्तिममकारस्य अनुस्वारादेशो न कृतः। किञ्च उच्चारणे कपोलशब्दवान् मकारः उच्यते चेत् तथैव लिखितव्यमिति चिन्तितम्।]

  4. योऽस्यां देववतारपावनभुवि स्वीयं जनुः प्राप्नुयाद्
    योऽधीयीत विचारसारसरणिं गैर्वाणवाणीं शुभाम् ।
    यः प्रत्नां भवमोचिनीं भगवतीमध्यात्मविद्यां व्रजेत्
    सौभाग्यातिशयी स एव लभते संसारसारोदयम् ॥

    • “देवावतार” इति न वा?

      • अवेत्युपसर्गस्थस्य अकारस्य लोपः कृतोऽत्र भागुरिमतेन । स हि अव अपि – इत्येतयोरुपसर्गयोरकारस्य लोपं विधत्ते । यथा –
        १. अवगाह्य – वगाह्य ।
        ’पूर्वापरौ तोयनिधी वगाह्य’ ( कुमारसंभवे प्रथमसर्गे प्रथमश्लोकः )
        २. अपिधानम् – पिधानम् ।

        • सम्यग् बोधितोऽस्मि भगवन्। (मट्टिप्पणिषु रक्षणाय सूत्रमपि ज्ञातञ्चेत् दर्शयतात्।)

          • मान्य ! अस्थाने किलासौ भगवच्छब्दः 🙂
            अत्रार्थे कारिका –
            वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
            आपं चैव हलन्तानां यथा वाचा दिशा निशा ॥

            कारिकेयं कौमुद्यामव्ययीभावप्रकरणे ’अव्ययादाप्सुप’ इति सूत्रस्य व्याख्याने वर्तते ।

            वस्तुत ईदृशाः प्रयोगाः शिष्टप्रयोगे सत्येव साधुत्वमर्हन्ति । अत्र मया छन्दोभङ्गभिया गत्यन्तराभावेण च प्रयुक्तम् 🙂

          • मदीये अन्तिमवाक्ये गत्यन्तराभावेन इति स्यात् ।

    • अयि विपश्चिदपश्चिम ! “भवमॊचनी ” इति प्रयोगः क्स्मादकस्माद् इव भवता नादृतः? 🙂

      • आर्य ! नाहं विपश्चिदपि तु विविदिषुरेव । विषयेऽस्मिन् ’अनवधानिना’ मया तथा प्रायोजि । धन्योऽस्म्यनेन सत्पथदर्शनेन 🙂

  5. गीतमिव मच्चितं प्रविष्टवदिदम्-

    इ संसारसारोदयं नौमि काव्यं
    नु काव्येन सर्वः स संसारसारः।
    विपच्यार्द्रभावेन सिक्त्वानुकम्पं
    ह्यभिव्यञ्ज्य दीयेत वन्द्यं हि काव्यम्॥

    [इ विस्मये इति स्मरामि। सन्धिं विना तादृशम् इकारं अन्यपङ्क्तौ स्थापितुम् अर्हामि वेति सूचयेयुः पण्डितचरणाः।]

    • वयस्यवर ! एवं स्वैरमेकाक्ष्ररकोषाणां प्रयॊगो न योग्यः कदाचिदयं चित्रकाव्येषु दुर्घटॆषु युज्यते किल:-) अपि च भवतः पद्यानां व्याक्रणरूपेषु मनागवधानमपेक्षितम्। अत्र विद्वन्मित्राणि साह्यं कुर्युः ।

  6. वाल्मीकिं करुणारुणोदयकथाकैवल्यकोलाहलं
    व्यासं शान्तरसावसानवचसां पद्मासनं पावनम् ।
    पाश्च्यात्यादिकविं च होमरमिहप्रीत्यां परं पौरुषं
    पाठं पाठंमवैमि भूमकवितासंसारसारोदयम् ॥

  7. अत्र उत्तराणि विपत्त्ररूपेण (email द्वारा) कथं प्राप्तुं शक्नुयाम्?

    • Sorry for the late reply. Only way I can think of is to subscribe comments RSS feed. But it hasn’t worked for me on feedly. I only get few comments out of so many. (google reader was better, I used to got all the comments even though not immediately)

  8. गार्हस्त्यं नवमारभं नु किमिदं संसारसार+उदयम्?
    छन्नं पूर्णमिदं जलं (in a lake) नु किमिदं सं(all)+सारस(lotus)+अर(speedy)+उदयम्?
    वैवाह्यं तु शरद्वते (past prime age) नु किमिदं संसारसारो-दयम्!
    अन्यत्किं सुलभं भणामि सहसा ’संसारसारोदयम्’!
    There are some doubtful prayogas here. There must surely be other pramAdas of which I haven’t an inkling. I am prepared for onslaught. Shoot.

    • Sir, koneya saalu tumba chennaagide. Innulida saalugalalli ondishtu savarane aagabekide.

    • Dear Dr. Shankar,
      The very fact that you have commented is reward enough. Thank you. I will get this verse evaluated from you when we next meet.

      • That is the right spirit prasAdu,
        Fully agree with you on getting comments from Dr. G and Dr. S itself is a reward 🙂
        I am also struggling with my verse even after several daMDayAtrAs I am not succeeding…

    • नमो नमः| I struggled to get the phrase once in 4 lines. you have got it once in every line 😀

  9. युधिसन्तप्तविमोहितार्जुनमन:प्रश्नावलीं केशव:
    चिरकालात् बहुसाधकप्रकृतिसङ्घट्टक्रियाकारिणीम्
    सुलभग्राह्यवचांसि घोरतिमिरात् सम्मार्जित:गीतया
    प्रददे दर्शनमीक्षुकांप्रति विभु: संसारसारोदयम्

    ಭಗವದ್ಗೀತೆಯ ಬಗ್ಗೆ ಪದ್ಯ, ದಯವಿಟ್ಟು ತಿದ್ದಬೇಕು

    • somanna,
      except for few grammatical lapses (which I do so many) your verse is always an inspiration to one and all. writing in kannada to try versification in sanskrit 🙂

  10. Soma, chennaagide padya. Mattebhavikreeditavannu balasiruvudu vishesha. Jotege Bhagavadgeeteya idea chennaagide. Aadare modalaneya paadadalli manaH antirabeku. Eradaneya paadadalli sanghatta annuvalli sam yatige modalu bandiruvudu ashtu shrutihitavalla. Paadaantada anusvaara makaaravaagi (Halantadondige) baredare olleyadu. Sorry maneyalliruva laptopnalli Baraha software illa adakke hege suttibalasi English lipiyalli bareyodaagide. sulabhagraahyavachaamsi elli hondatte anta gottaagalilla – geetayaa sulabhagraahyavachaamsi anta arthaanaa? aaga darshanam hege hondatte? athavaa sulabhagraahyavachaamsi darshanam (cha adhyaahaaradondige) pradade antanaa? ghoratimiraat sammaarjitah kah? Arjuna athava keshava. Keshavane nimage abhipreta anisuttide ekendare ade prathamaa vibhaktiyallirodu. sammaarjito antaagabeku. koneya paadadalli eekshakaan irabekalwa? Mattu illoo paadantada anusvaaravannu makaara maadabeku. Ishtellaa heliddakke bejaarillaa taane?

    • Dear Shankar,

      Thanks a lot for sparing no pains to correct Soma’s verse so well..Hope this cooperation is extended to others too as per the availability of your time:-)

      • ಧನ್ಯವಾದಗಳು ಶಂಕರ್, ದಯವಿಟ್ಟು ನಿರ್ದಾಕ್ಷಿಣ್ಯವಾಗಿ ಪದ್ಯವನ್ನು ತಿದ್ದಬೇಕು, ನನ್ನ ಕಲಿಕೆಗೆ ಅದೇ ಮಾರ್ಗದರ್ಶಕ 🙂

        ಮನ:, ಪಾದಾಂತ್ಯಾಲ್ಲಿ ‘ಮ್’ ಸವರಣೆ ಸುಲಭದ್ದು ಮಾಡಿದ್ದೇನೆ. ಮಿಕ್ಕ ಸವರಣೆಗಳನ್ನು ಮತ್ತು ಅನ್ವಯಕ್ಲೇಶ ನಿವಾರಣೆಗಳನ್ನೂ ಮಾಡುತ್ತೇನೆ

  11. बाल्ये पातुमयोग्यतां भजति यद् घातोपशान्त्यै भवेत्
    मित्रत्वं तनुते तदेव समये यन्मन्दमन्दं पयः ।
    वार्धक्ये गमयेत् यत्स्मृतिपथं यातेषु तोषं ददत्
    काफीपानमशेषतो धरति तत् संसारसारोदयम् ॥

    ಮೊದಲನೆಯ ಪಾದದ ಬಗ್ಗೆ – ಮಕ್ಕಳಿಗೆ ಕಾಫಿ ಕೊಡದಿರುವರೇ ಹೆಚ್ಚು. ಮಕ್ಕಳು ಬಿದ್ದು ಗಾಯಮಾಡಿಕೊಂಡಾಗ ನಮ್ಮ ಸೋದರತ್ತೆಯೊಬ್ಬರ ರಾಮಬಾಣವೆಂದರೆ ಕಾಫೀಪುಡಿ ಹಚ್ಚುವುದು.

    • Third line has only 18 syllables and 7th letter must be laghu but has become guru. I think a typo has caused this यत्स्मृतिपथं –> यतस्मृतिपथं ?

  12. ಇನ್ನೊಂದು ..
    तीर्त्वा वत्सरशः परीक्षणगणान् दृष्ट्वा च किंचिन्नवं
    लब्ध्वान्ते यशसा प्रसिद्धपदवीं भूयः प्रयत्ने रतः ।
    नित्यं पत्रविलेखने कृतमतिस्तेनैव नन्दं धरन्
    जीवन्मुक्तिमिवात्र पश्यति जनः संसारसारोदयम् ॥

  13. ಮತ್ತೊಂದು ..
    देहि त्वं गमनाय शोधनपथे लक्ष्मीपते तारक
    श्रुत्वा प्रार्थनभाषितं यदि धनं कुर्वे तवानेन किम् ।
    क्लेशांस्तेन करोमि वै परिहृतान् तारस्वरेणाभणद्
    वाचोऽमन्यत संशयेन धनवान् संसारसारोदयम् ॥

    संशोधनजगतः स्थितिं स्मारयतीव संभाषणमेवम् –
    संशोधकः – “लक्ष्मीपते, तारक, शोधनपथे गमनाय त्वं देहि” ।
    धनिकः प्रवर्तकः प्रत्याह । “प्रार्थनभाषितं श्रुत्वा यदि धनं तव कुर्वे, अनेन किं (भवति)?” ।
    संशोधकः “तेन (धनेन) क्लेशान् परिहृतान् करोमि वै ।” इति तारस्वरेण (विश्वासं प्रकटयन्) अभणत् ।
    धनवान् वाचः संशयेन संसारसारोदयम् अमन्यत । (तन्नाम उभावपि वस्तुस्थितिं जानीतः । मिथः सर्वतोमुखं विश्वासम् अकुर्वन्तौ एव व्यवहारे प्रविष्टौ इति भावः )

  14. संन्यासी हृदि कृष्णनाममननं कुर्वन् पुरोगामिनीं
    दृष्ट्वा तां क्षणमात्रमाकुलितधीर्देवं विस्मृत्यास्थितः ।
    तस्यामेव गतिं च पश्यति यतिः संसारसारोदयं
    श्रेष्ठा एव यदीदृशाश्च्युतपदाः का मादृशानां गतिः ॥

    अप्राप्याश्रमविप्लवं गृहभृतां पुत्रानलब्ध्वा नरो
    योऽगत्वा धनसंपदद्रिशिखरं ख्यातैरसंमानितः ।
    सामान्यैररुदन् भवैर्यथा भुविगतं द्वन्द्वेऽहसित्वा सुखी
    स्वप्ने पश्यति जीवितात् तदितरं संसारसारोदयम् ॥

    एताभ्यां पूरणाभ्याम् अद्यतनात् रचनात् विरमामि ।

    • “दृष्ट्वा तां क्षणमात्रमाकुलितधीर्देवं विस्मृत्यास्थितः ।” अत्र वि-कारः गुरुर्भवति, लघु भवितव्यम् किल?

      “दृष्ट्वा तां क्षणमात्रमाकुलितधीर्देवस्मृतिं त्यक्तवान् ।” इत्युक्ते छन्दोलोपो न भवेत् इति मन्ये ।

    • वयस्यवर नरॆश! तव पद्यान्यनवद्यानि विलोक्य हर्षकर्षितॊsपि विलम्बेन प्रत्युत्तरपरायणॊsस्मीति क्षन्तव्यः। एतेषु दिवसॆषु प्रवासमग्न आसमिति हेतुना निजाभिप्रायप्रकटनकदर्थितोsस्मि। अपि भवल्लॆखनी कामदुघा संततमास्ताम् ।

  15. पुरा अहं स्मयापूरणानि प्रेषितवान् विद्य्त्सन्देशेषु प्रेषितवान् । परन्तु ते अतस्मिन् जालस्थाने न दृश्यन्ते । अतः अत्र स्थापयामि ।

    बाल्ये क्रीडनमेव मुख्यमनिशं मातापितृप्रीणनम्
    तारुण्ये तरुणीजनो मनसि भोः वित्तार्जनायोद्यमः ।
    वार्धक्ये तनुजादिसौख्यविषये चिन्ता जराया भयम्
    एवं गच्छति जन्मनीह तु कथं संसारसारोदयम् ॥

    ಆಟಂ ಮುಖ್ಯವು ಬಾಲ್ಯದಲ್ಲಿ ದಿನವೂ ತಾಯ್ತಂದೆ ಕೈಗೊಂಬೆಯೂ
    ಪೆಣ್ಗಳ್ ಯೌವನದಲ್ಲಿ ನಿತ್ಯ ಮನದೊಳ್ ಸಂಪಾದಿಸಲ್ಕುದ್ಯಮ |
    ಮಕ್ಕಳ್ ಚಿಂತೆಯು ರೋಗ ಬರ್ಪ ಭಯವೂ ಹೆಚ್ಚಾಗೆ ವಾರ್ಧಕ್ಯದೊಳ್
    ಎಂತೋ ಬರ್ಪುದು ಜನ್ಮವಿಂತಿರುತಿರಲ್ ಸಂಸಾರಸಾರೋದಯಂ ||

    पुनरेकं प्रयत्नम् —

    बाल्ये मातृपितृप्रबुद्धमनसा विद्यार्जने गौरवम्
    स्वाध्याभ्यसनं नियन्त्रितमनोवृत्तिस्ततो यौवने ।
    वार्धक्येऽनुदिनं हरेर्भगवतो ध्यानं च सङ्कीर्तनम्
    अभ्यासेन हि पश्यतीह मनुजः संसारसारोदयम् ॥

    पुनरेकं प्रयत्नम् । अत्र पद्ययुगलं वर्तते ।

    दृष्ट्वा क्षीरसमुद्रमध्यशयनं तुष्टं रमेशं हरिम्
    नृत्यन्तं च हिमाचलोदवसितं तुष्टं ह्युमेशं हरम् ।
    भ्रान्ता यान्ति निरन्तरं भुवि जनाः निस्सारसंसारिणः
    प्राप्तुं तत्र सतीपितुर्गृह इमे संसारसारोदयम् ॥

    (परन्तु)

    सत्कारः प्रथमद्वितीयदिनयोः श्वश्र्वा च भर्त्रा तयाः
    साहाय्यं जडतां विहाय कुरु चेत्याज्ञा तृतीये दिने ।
    प्रस्थानं तु कदा भवेदिति तयोः प्रश्नस्तु षष्ठे दिने
    किं भोः पादनिशाकरे गलगते संसारसारोदयम् ? ॥

    (अत्र अर्धचन्द्रप्रयोगः इति विख्यातः, परन्तु कण्ठस्योपरि गच्छद्धस्तस्य रूपं पादचन्द्र (crescent Moon) इव दृश्यते किल? अतः पाद्निशाकरे इत्युक्तम्)

    • सत्कारः प्रथमद्वितीयदिनयोः श्वश्र्वा च भर्त्रा तयाः
      साहाय्यं जडतां विहाय कुरु चेत्याज्ञा तृतीये दिने ।
      प्रस्थानं तु कदा भवेदिति तयोः प्रश्नस्तु षष्ठे दिने
      किं भोः पादनिशाकरे गलगते संसारसारोदयम् ? ॥

      अस्मिन् प्रथमे पादे तयाः इति अशुद्धपदस्य उपयोगं कृतम् । क्षम्यताम् । अधोलिखितम् समीचीनतरमिति मन्ये ।

      सत्कारः प्रथमद्वितीयदिनयोः पत्न्याः पितृभ्यां भवेत्
      साहाय्यं जडतां विहाय कुरु चेत्याज्ञा तृतीये दिने ।
      प्रस्थानं तु कदा भवेदिति तयोः प्रश्नस्तु षष्ठे दिने
      किं भोः पादनिशाकरे गलगते संसारसारोदयम् ? ॥

      तथा च अन्ये सङ्कुट्टनदोषाश्च सन्ति ।
      “पुरा अहं स्मयापूरणानि प्रेषितवान् विद्य्त्सन्देशेषु प्रेषितवान् । परन्तु ते अतस्मिन् जालस्थाने न दृश्यन्ते । अतः अत्र स्थापयामि ।”
      इत्यत्र
      “पुरा अहं समस्यापूरणानि विद्युत्सन्देशेषु प्रेषितवान् । परन्तु ते एतस्मिन् जालस्थाने न दृश्यन्ते । अतः अत्र स्थापयामि ।” इति भवितव्यम् ।

      अन्ते लिखितस्य पद्ययुगलस्य आधारं पाठकाः जानीयुरेव । प्रथमम् — असारे खलु संसारे सारं श्वशुरमन्दिरम् …; द्वितीयम् – एकं द्वे त्रीणि चत्वारि पञ्च षट् .. (एतस्य पद्यस्य द्वितीयार्धम् अहं विस्मृतवान् – तत्र अर्धचन्द्रप्रयोगः इति भवति) । –

      • भारवेः पद्यमिदमपि ख्यातमस्ति

        श्वशुरगृहनिवासस्स्वर्गतुल्यो नराणाम्
        यदि निवसति दिवसत्रीणि वा पञ्च सप्त ।
        मधुदधिघृतधारा क्षीरसारप्रवाहः
        तदुपरि दिनमेकं पादरक्षाप्रहारः ॥ 😀

    • वयस्य रामप्रियमहाभाग! भवत्पद्यानि रमणीयान्यॆव। प्रायॆण मुक्तभाषादॊषाश्च। किं तु क्वचिदत्र तृतीयपाद-चतुर्थपादयो्र्मध्ये सन्धिर्न कृतः। यदि क्रियते तर्हि छन्दोभङ्गः स्यात्। अतः तत्र सम्यक् समञ्जनमेव कार्यम्।

      • धन्यवादाः भवते । सन्धिः भवितव्य एवेति नियमः कुत्रास्ति इति कृपया सूचयतु । साधारणातया क्रियते एव । परन्तु यदा कदाचित् अपवादानपि पश्यामः । यथा वाल्मीकिरामायणे बालकाण्डे

        “विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् । वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥”

        तथा युद्धकाण्डे

        “निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः | सौमित्रिं संपरिष्वज्य इदं वचनमब्रवीत् ||”
        अपि च अमरकोषे
        क्रमादातिथ्यातिथेये अतिथ्यर्थे‍‌ऽत्र साधुनि ।

        उपरिलिखितेषु उदाहरणेषु द्वितीयं तृतीयं च मम भ्राता कृष्णप्रियः कतिचनमासेभ्यः पूर्वे कस्मिंश्चित् सन्देशे प्रेषितवान् यदा पद्यधारावृन्दे ईदृशः प्रश्नः सञ्जातः । यदि भवान् शास्त्राधारं यच्छति तर्हि अस्मभ्यस्सर्वेभ्यः महदुपकरो भवेत् ।

  16. संसारसारोदयपदस्य पुल्लिङ्गतां स्मारितोऽहं विश्वासमहोदयेन । अतः

    सत्कारः प्रथमद्वितीयदिनयोः पत्न्याः पितृभ्यां भवेत्
    साहाय्यं जडतां विहाय कुरु चेत्याज्ञा तृतीये दिने ।
    प्रस्थानं तु कदा भवेदिति तयोः प्रश्नस्तु षष्ठे दिने
    किं भोः पादनिशाकरे गलगते संसारसारोदयम् ? ॥

    इत्यस्मिन् पद्ये चतुर्थपादे दोषोऽस्ति । अधः समीक्रियते ।

    सत्कारः प्रथमद्वितीयदिनयोः पत्न्याः पितृभ्यां भवेत्
    साहाय्यं जडतां विहाय कुरु चेत्याज्ञा तृतीये दिने ।
    प्रस्थानं तु कदा भवेदिति तयोः प्रश्नस्तु षष्ठे दिने
    पश्येत्पादशशिप्रयोगविधिना संसारसारोदयम् ! ॥

    अन्याः दोषाः सन्ति चेत् कृपया सूचयन्तु पण्डिताः ।

  17. Yesterday was विश्वसंस्कृतदिनम् । So it seems appropriate to compose a verse about it and then follow with another to follow this month’s theme.

    विश्वसंस्कृतदिनं तदुदीरितं श्रावणे शुभपूर्णशशेर्दिने ।
    भातु दिक्षु सकलासु संस्कृतिः संस्कृतेन जनितं च वाङ्मयम् ॥

    बाल्ये संस्कृतपद्यपाननिरतश्चास्वादको यौवने
    वृद्धो वाङ्मयवाचनेन कुरुते ज्ञानस्य संवर्धनम् ।
    एवं प्राप्य गुरोः कृपाजलनिधेः संस्कारसारोदयम्
    देही पुण्यकृदत्र किं न लभते संसारसारोदयम् ? ॥

    • रामप्रिय नवकवना-
      रामप्रियकोकिलस्त्वमधुनासि ।
      पद्येन पञ्चमध्वनि-
      हृद्येन शुचं जनस्य विधुनासि ॥

      • आदिमे पद्ये पथमद्वितीयपादयोश्छन्दोदोषो वर्तते

        • एतदहमुपजातिरिति मत्त्वा रचितवान् विषमवृत्ते ।

          “विश्वसंस्कृतदिनं तदुदीरितं” इति यदस्ति तत् “विश्वसंस्कृतदिनं तदुच्यते” इति कुर्मश्चेत् तृतीयचतुर्थपादयोः प्रथमस्य च साम्यं भवेत् । सर्वे ते रथोद्धतायां भवन्ति । परन्तु द्वितीयपादं तथा कर्तुं न शक्नोमि । ६-७ अक्षरयोः लगमावश्यकं परन्तु गलमभवत् । भवता यदि शक्यते तर्हि सूचयतु ।

          धन्यवादाः

  18. मातुस्तां कुलधर्मवर्त्मदलनाशङ्कां च हर्तुं सुतः
    कावेयार्षतरित्रयुग्मसहितां नौकां जयाख्यां शुभाम् |
    सृष्ट्वा लौकिकसागरात्तु रसिकानुत्तार्य तान् द्वीपजः
    चक्रे व्यासमुनी रसक्रतुरहो संसारसारोदयम् ||

    To allay his mother’s fear about her kuladharma (fishing/sailing) not being passed on to future generation vyAsa having built a boat named jaya (mahAbhArata) which had its two oars as kAveya (as in something related to kavi, by Shankar’s suggestion as kavi is similar to kapi) and Arsha (as in something related to Rshi) having helped rasikAs to cross bhavasAgara in that boat, did/created संसारसारोदाय

    few mistakes might have crept in. please help me in correcting them

    • I can’t certify it. I can only marvel at it.

    • प्रियसख! श्वः पद्यस्यास्य परिष्कारमपेक्षितं शाकुन्तलपाठावसर एव करिष्ये। 🙂

      • भवतः साहाय्येन पद्यपरिष्कारं कृतवानस्मि |

        • सखे, निर्माय, अव्ययस्नेह, निर्मायेति लिखितव्ये सति निर्मित्वेति कुतो व्यलेखि?

          • भवतः आज्ञानुसारेण निर्माणं त्यक्त्वा सृष्टिकार्ये निमग्नोऽस्मि 😛

  19. Two cooks are spoiling the broth 🙂

    संभारान् नय सप्रमाणमयि भोः। जीरादि नानाविधान्
    संपच्ये किल लालसीक(ಗೊಜ್ಜು)मधुना। शाकान्यनेकान्यतः।
    संमिश्रं करवावहे नु लवणं| चूर्णं ततो मारिचम्
    पश्चाल्लोडनतो लभेवहि वरं। संसारसारोदयम्॥

    (ಸಂಸಾರ> ಸಂ+ಸೃ > ತರಕಾರಿ-ಸಂಭಾರಗಳು ಚೆನ್ನಾಗಿ ಮುಳುಗಿ ಬೆಂದು…)

    • अहॊ रथ्यारौद्रस्य (हादिरम्पस्य संस्कृतावतरणं !:-) राचनिकरमणीयता!! पद्यमनवद्यम्।

      • I have coined a few more translations:प्रमन्दतीर्थ, विप्लवाध्व, (आ)विलक्षवर्त्म 🙂

    • ಕಾ ವ್ಯಂಜನಮಿದಂ ಜಿಹ್ವಾ ನ ವೇತ್ತಿ ಲವಣಾನ್ವಿತಮ್ |
      ಕಾವ್ಯಂ ಜನಸ್ತು ವೇತ್ತ್ಯೇತದ್ದ್ರಾಕ್ಷಾಮಧುರಮೇವ ತೇ ||
      ನೀವು ತಯಾರಿಸಿದ ಈ ಅಡುಗೆತನ್ನು (ವ್ಯಂಜನಂ) ಯಾವ (ಕಾ) ನಾಲಗೆಯು ಉಪ್ಪೆಂದು ತಿಳಿಯುವುದಿಲ್ಲಾ? ಆದರೆ ನೀವು ತಯಾರಿಸಿದ ಈ ಕಾವ್ಯವನ್ನು (ಕಾವ್ಯಂ) ಜನರು (ಜನಃ) ದ್ರಾಕ್ಷೆಗಿಂತ ಸಿಹಿಯೆಂದೇ ತಿಳಿಯುವರು.
      ಮೊದಲನೆಯ ಪಾದದಲ್ಲಿ ಅಯಿ ಭೋಃ ಆಗಬೇಕು ಅಯೇ ಭೋಃ ಅಲ್ಲ

    • ಉತ್ತೇಜನಕ್ಕಾಗಿ ಹಾಗೂ ತಿದ್ದುಗೆಗಾಗಿ ಕೃತಜ್ಞನಾಗಿದ್ದೇನೆ ಗಣೇಶರೆ, ಶಂಕರರೆ.

  20. प्रातर्भर्त्सितबान्धवो निजगृहात् कार्याय दूरं गतः
    श्रुत्वा वह्निमयं महाव्यतिकरं गेहोपकण्ठे स्थितम् ।
    सम्भ्रान्तेन च स्वेदसार्द्रवपुषा प्रत्युत्थितं स्वप्नतो
    दृष्ट्वा निद्रितबान्धवान् निशि मतौ संसारसारोदयम् ॥

    • It is really a nice poem. Even the diction is chaste and classical. Thanks for this padyapraabhRta:-)

      • Thank you very much sir!

        • प्रसादगुणोज्ज्वलं पद्यं भवतः । केवलं तृतीये पादे स्वेद इत्यत्रच्छन्दोदोषो वर्तते ।

          • Thank you very much for identifying this. I hope this corrects it.

            प्रातर्भर्त्सितबान्धवो निजगृहात् कार्याय दूरं गतः
            श्रुत्वा वह्निमयं महाव्यतिकरं गेहोपकण्ठे स्थितम् ।
            स्वेदक्लिन्नवपुश्च साश्रुनयनः प्रत्युत्थितः स्वप्नतो
            दृष्ट्वा निद्रितबान्धवान् निशि मतौ संसारसारोदयम् ॥

          • प्रातर्भर्त्सितबान्धवो निजगृहात् कार्याय दूरं गतः
            श्रुत्वा वह्निमयं महाव्यतिकरं गेहोपकण्ठे स्थितम् ।
            स्वेदक्लिन्नवपुश्च साश्रुनयनः प्रत्युत्थितः स्वप्नतो
            दृष्ट्वा निद्रितबान्धवान् निशि ययौ संसारसारोदयम् ॥

            Changed matau to yayau.

            I initially had figured udaya was in both masculine and neuter. Thanks to Dr. Shankar for letting me know of my mistake. (and my not reading other posted verses 🙂

            Basically the person obtained the rise essence of family/existence at night.

  21. श्री-कृष्ण-जन्मोत्सवावसरे अन्यच्च पद्यमिदम्

    देवानामपि दोषमोहसमये मर्त्ये च निद्रां गते
    विष्णोः पादसुदीपतारकगणे मोघैश्च मेघैर्वृते ।
    कंसानीकनिपीड्यमाननगरे नास्तिक्यनृत्याङ्गणे
    सर्वापत्य-विनाश-दुःख-जठरे संसारसारोदयम् ॥

    doSha – night
    viShNupada – sky

    • A very welcoming poem indeed! Especially the metaphor, “naastikya-nRtyaangaNa”. But I think you can further polish the second line.

    • In this case संसारसारोदयम् happening in the midnight makes it even more interesting 🙂

      • अहो भाग्यं यत् गणेश-शङ्कर-निकष-प्रत्रिक्रियाः एकत्र प्राप्ताः । काव्यरचनाभ्यासिनां तु परीक्षोत्सव एव!

        After significant suggestions from Dr. Shankar – posted here is the verse.

        देवानामपि मोह-सक्त-तिमिरे मर्त्ये च निद्रां गते ।
        भूश्रीदुःस्थितिदर्शनाच्च विवशे वर्षाश्रुयुक्तेऽम्बरे ।
        दुष्टानीकनिपीड्यमाननगरे नास्तिक्य-नृत्याङ्गणे
        वन्देऽपत्यविनाशदुःखजठरे संसारसारोदयम् ।

        Meaning in English:
        When the devas indulged in their ignorant darkness and the world of men slept.
        When the helpless sky was full of rain-tears seeing the state of Mother Earth,
        In the city marauded by forces of evil,
        In a time and place that was a dancing stage for non-belief,
        In the womb that had seen the destruction of all its progeny, (when all hope was lost)
        did arise the essence of the Universe. I salute that essence.

        Notes:
        dakShiNAyana is night for the devas. Bhagavan ShrI Krishna was born in the midnight of shrAvaNa-kRuShNa-aShTami.

        PS: The poem was “developed” quickly. Bug fixes took more time! 🙂

  22. संसारसारोदय इत्येवात्र भवितुमर्हति न पुनः संसारसारोदयमिति । दोष इत्यस्य पदस्य निशेति कथं सम्पद्यते पर्यायः,’दोषा’ इत्येव स्यात् । विष्णुपदमित्येकत्रैव प्रयोज्यः शब्दो भवता, नो चेद्विष्णोर्मेघैरित्यन्वये सति नैरर्थक्यसम्भवात् । कुतो मोघाः मेघाः ? पादसुदीपतारकगण इत्यस्य विशेषणस्य को विषयः? मेघैः किं वृतम् ? नगरं वा, विष्णुपदं वा ?

 Leave a Reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)