Sep 142013
 

सर्वशुक्ला वसुन्धरा

इति अनुष्टुप् पद्यस्य अन्तिमपादं उपयुज्य समस्यापूरणं कुर्मः

  90 Responses to “पद्यपाने संस्कृतपद्यमासः ३ : समस्यापूरणम् :: सर्वशुक्ला वसुन्धरा”

  1. Using the idea of a spectrum:

    सुनीला च जलस्तोमैः श्यामला सस्यकोटिभिः।
    पीतपुष्पैर्हसन्ती च केसरैश्च विभूषिता ।

    अनन्ताहववाहैश्च रक्तस्रोतैः परिप्लुता ।
    मरीचिरिव सूर्यस्य सर्वशुक्ला वसुन्धरा ॥

    “Blue from her waters, green with her billion saps
    Laughing with her yellow flowers, and decorated with saffron.”

    “Drenched red in the streams of blood from unending battles,
    like a ray of the sunlight, the Earth is all-white”

    • Dear Mohan, Your idea is qute novel. But the word srOtas is not a-kaaraaanta. It is sa-kaaraanta. Pl correct it and generally it is not that desirable to solve the samasyaa in two verses.Pl try to fit your ideas in one verse:-).I know it is pretty difficult. Well, yatnE kRtE yadi na siddhyati kO’tra dOShaH?

  2. क्रौञ्चद्वीपे अमेरिकाखण्डे यूरोपागतानां जयं वर्णयन्।

    यूरोपागतरोगैश् च
    दुःसहैर् यन्त्रशस्त्रकैः।
    आदिवासिविनाशेन
    सर्वशुक्लावसुन्धरा॥

    एवं सम्पादितम् –
    यन्त्रशस्त्रभिः -> यन्त्रशस्त्रकैः।

  3. Ice age वर्णनम्।

    हिमपाते हि सञ्जाते
    युगे हैमे पुरातने।
    चन्द्रिकाशाटिकाच्छन्ना
    सर्वशुक्लावसुन्धरा॥

    [प्रियगुरोः रागस्य सूचना अनुसृत्य परिष्कारः कृतः। तृतीयपङ्क्तिः प्राक् वैधवशाटिकालिप्ता इत्यासीत्।]

    • Good parihaara. Ppl correct the second line as yugE haimE puraatanE. Also correct and polish the third line. My suggestion would be: caMdrikaa-shaaTikaa-cchannaa

      • बहुसाधुनि भवत्सूचनानि भगवन्। पादे द्वितीयतृतीयमात्रयोर् एकतरेण गुरुणा भाव्यम् इति नियमस्य प्रमादश् च, “वैधव”शब्दस्य अनौचित्यं चापि निवारितम्।

  4. पुनः हैमयुगात् वर्तमानयुगोद्भवम् उत्पश्यन् —

    शुक्लाम्बरधरो विष्णुः
    पीतं वस्त्रं‌ यदेष्टवान्।
    धारयच्छाटिकां प्रीत्या
    सर्वशुक्ला वसुन्धरा॥

    पश्चात् पीताम्बरो भूतः
    मनुष्याभ्युदयाय वै।
    भूमिं पीताम्बरां कृत्वा
    हिमशून्यां चकार हा॥

    आधुनिकमनुष्याणाम् आफ़्रिकाखण्डात् बहिरागमनं हिमयुगान्ते एव साध्यमभूत् इति विज्ञानिकाः।

  5. प्रियपद्यपानपालकाः – किं ( http://wordpress.org/plugins/subscribe-to-comments-reloaded/ इत्यनेन वा) उत्तरप्राप्तिसूचनानां विपत्त्रैः (email द्वारा) प्रेषणाय व्यवस्थां कुर्यात वः?

    • वयस्य,
      समाक्षेपाय(suggestion) धन्यवादः 🙂 अस्य तन्त्रांशं स्थापयितुं प्रयत्नं कुर्मः

  6. यत्नद्वयमत्र —

    नानावर्णा वसन्तर्तौ ग्रीष्मे तु हरिदावृता ।
    हेमन्तान्ते च शिशिरे सर्वशुक्ला वसुन्धरा ॥

    लञ्चापूर्णे सर्वकारे धने कृष्णत्वमागते ।
    कथमेवं कलौ क्लिष्टे सर्वशुक्ला वसुन्धरा ? ॥

    • वयस्य,
      “लञ्चापूर्णे सर्वकारे” इति पादे छन्दोदोषः वर्तते | अनुष्टुभे वृत्तपादे पञ्चमाक्षरः लघुस्स्यात् तथा षष्ठाक्षरस्तु गुरुः | कृपया परिहरतु |

      • धन्यवादाः राघवेन्द्रमहोदय । समस्यानियमः अनुष्टुभि रचनीयमिति न श्लोका भवितव्या इति । अतः शोलोकापवादानुष्टुप्प्द्यानि अपि भवितुमर्हन्तीति अचिन्तयम् । परन्तु भवतः उक्त्या एवं भवतु परिहारः —
        लञ्चापूर्णे प्रजाराज्ये धने कृष्णत्वमागते ।
        कथमेवं कलौ क्लिष्टे सर्वशुक्ला वसुन्धरा ? ॥

        पुरातनकाव्येषु अनेकानि सन्ति उदाहरणानि अश्लोकानुष्टुप्पद्यानाम् । तेषु कानिचन अत्र स्थापयिष्यामि ।

        वाल्मीकिरामायणे —
        तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
        नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१.१॥
        भगवद्गीतायाम् —
        धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
        पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१.५॥

        येषामर्थे काङ्क्षितं नो राज्यं भोगास्सुखानि च ।
        त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१.३३॥

        न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
        न चैव न भविष्यामः सर्वे वयमतः परम् ॥२.१२॥

        अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
        तथापि च महाबाहो नैवं शोचितुमर्हसि ॥२.२६॥

        यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
        सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२.३२॥

        भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
        येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२.३५॥

        अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
        निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२.३६॥

        कामात्मानस्स्वर्गपरा जन्मकर्मफलप्रदाम् ।
        क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२.४३॥

        यावानर्थ उदपाने सर्वतस्सम्प्लुतोदके ।
        तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२.४६॥

        यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
        तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२.५२॥

        दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
        वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२.५६॥

        इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
        तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥२.६७॥

        ज्यायसी चेत्कर्मणस्ते मताबुद्धिर्जनार्दन ।
        तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३.१॥

        न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
        कार्यते ह्यवशः कर्म सर्वैः प्रकृतिजैर्गुणैः ॥३.५॥

        यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
        कर्मेन्द्रियैः कर्मयोगमसक्तस्स विशिष्यते ॥३.७॥

        नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
        शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३.८॥

        • वयस्य,
          दोषं क्षमस्व | प्रश्नेन सह नियमान्यपि स्पष्टं करणीयः | अश्लोकानुष्टुप्पद्यानि ज्ञातोऽस्मि |

  7. क्वचिद्रक्ता क्वचित्पीता क्वचित्कृष्णापि मृत्तिका ।
    इदं दृष्ट्वा कथं जाता सर्वशुक्ला वसुन्धरा ॥

    • परन्तु भवान् सम्यग्जानात्येव–
      आल्बन्यां फाल्गुने मित्र सर्वशुक्ला वसुन्धरा !!

      • 🙂 Ssh! उच्चैर्मा वादीत् ! साम्प्रतं सप्ताम्बरम् एव!

  8. If a kannada pooranam is permissible !!

    ತೇ|ಗೀ||
    ಉರ್ವಿ ತಳೆಯದೇಂ ಘನರ ಶ್ವೇತಾಖ್ಯ ಕೀರ್ತಿ
    ಶರ್ವನೂದೆಬೂದಿಯೊ ಬೊಮ್ಮಪೆತ್ತ ಬಿಳಿಯೊ
    ಸಾರ್ವಭೌಮ’ಜಲಪಿತ ಸುತನದನ್ನ’ ಸಾರ
    ’ಸರ್ವಶುಕ್ಲಾ ವಸುಂಧರಾ’ ನಿತ್ಯ ಸತ್ಯಂ(ಕೋವಿಶೇಷಃ) !

    • प्रियाग्र्यवयस्य!
      भवद्भ्यः स्वागतं

      सेचिता तु रसाद्रैश्च तव मौलौ स्थिताम्बुभिः
      कथं न स्यान्महाभाग सर्वशुक्ला वसुन्धरा ?

      🙂

    • संस्कृतस्य कर्णाटान्ध्रानपायिबान्धव्यं सूचयितुमिव तेटगीतिबन्धे कन्नडपद्यमिदं पूरणाय कल्पितम्। धन्यवादाः

  9. सर्वादाने समर्थोऽसौ रन्ध्रः कृष्णो भवेद्यदि ।
    सर्वदाने समर्थासौ सर्वशुक्ला वसुन्धरा ॥
    (कृष्णः रन्ध्रः black hole सर्वस्य आदाने स्वीकारे समर्थः यदि भवेत्, तर्हि सर्वदाने सर्वस्य दाने समर्था असौ वसुन्धरा सर्वशुक्ला)

  10. माघे दक्षिणराज्येष्वस्त्यर्धशुक्ला वसुन्धरा ।
    देशस्योत्तरराज्येषु सर्वशुक्ला वसुन्धरा ॥
    (अत्र देशः अमेरिकादेशः इति गणनीयः)

    शुक्लाम्बरधरं विष्णुं श्वेतवस्त्रां सरस्वतीम् ।
    दृष्ट्वोवाच भवानीति सर्वशुक्ला वसुन्धरा ॥

  11. Vasundhara/Muzaffarnagar is the place where violence erupted in UP recently. Closeby is Asaram Bapu’s ashram.

    सतां नैच्यानुसंधानात् प्रजाभिर्क्षोभभावनात्।
    गलितास्सर्ववर्णास्तु सर्वशुक्ला वसुन्धरा॥

    • वर्ण शब्द i think it is पुल्लिङ्ग if it used as a पुल्लिङ्ग then गलितास्सर्ववर्णाः if my guess is wrong and if it is नपुंसक then it will be गलितानि सर्ववर्णानि.

    • अहॊ प्रसादस्य विनूत्नकल्पना
      दिशान्तविश्रान्तमतन्गजानने।
      कनद्रदानां सितिमानमञ्जसा
      जहार हारावलिगौरिला तथा ॥

      • ಶಂಕರ್‍ರವರನ್ನು ಕೇಳಿ ಅರ್ಥ ತಿಳಿದುಕೊಂಡೆ (ಉತ್ತರಾರ್ಧದ್ದು). ಕೃತಜ್ಞತೆಗಳು.

      • ಎರಡನೆಯಾರ್ಧ – ಸವರ್ಣದೀರ್ಘಸಂಧಿ ಸಂಸ್ಕೃತದ್ದು, ಕನ್ನಡದ್ದಲ್ಲ. ಇದು ಅರಿಸಂಧಿಯೆನಿಸುತ್ತದೆಯೆ? ಹಾಗೆ ಮಾಡದೆ ’ಎರಡನೆಯರ್ಧ’ ಎಂದರೆ, ಅರಿಸಮಾಸವಾಗುತ್ತದಲ್ಲವೆ? ಇರಲಿ:
        ಹಾರಾವಲಿಗೌರಿಲಾ ತಥಾ – ಬಿಳಿಯ ಹಾರದಂತೆ, ಕನತ್ – ಹೊಳೆಯುವ, ರದಾನಾಂ – ದಂತಗಳ, ಸಿತಿಮಾನಂ – ಹೊಳಪನ್ನು, ಅಞ್ಜಸಾ – ತ್ವರಿತವಾಗಿ, ಜಹಾರ – ಅಪಹರಿಸಿತು.

        • ಈಗತಾನೆ ನಿಮ್ಮ ಉತ್ತರವನ್ನು ಕಣ್ಡೆ. ಕನ್ನಡವ್ಯಾಕರಣವನ್ನು ಶಾಲೆಯಲ್ಲಿ ಓದಿದಮೇಲೆ ಮರೆತಿಹೋದೆ – ಮತ್ತೆ ಕಲಿಯಬೇಕು. http://kanaja.in/archives/8261 -ಅಲ್ಲಿ ಕಾಣುವ ವಿವರಣೆಯಿನ್ದ ಅರಿಸಮಾಸದಬಗ್ಗೆ ತಿಳಿದೆ. ಆದರೇ ಈ ಅರಿಸನ್ದಿಯೆನ್ದರೇನು? ಕನ್ನಡ-ಸಂಸ್ಕೃತಪದಗಳ ನಡುವೆ ಸಂಸ್ಕೃತಸನ್ಧಿ ಮಾಡಬಾರದೋ?

  12. समुद्रकुक्षिनिक्षिप्ता हिरण्याक्षेण हारिता ।
    वियॊगपाण्डुरा विष्णोः सर्वशुक्ला वसुन्धरा ॥
    The mother earth being immersed in the causal waters by the demon HiraNyaakSha and suffering the pangs of separation of her Lord, has turned pale and so she is sarvashuklaa now!

    • प्रतिभाध्वरवेदिसम्भवा तव जीयाच्चतुरास्य भारती ।
      रसवित्परिषद्वसुन्धरासविलासोद्धृतिसूकराकृतिः ॥

  13. विंशतेर्वत्सरेभ्यः प्राग् वाहनप्रमुखे पुरे ।
    कालिफोर्न्याप्रदेशेऽभूत् सर्व-shook-LA वसुन्धरा ॥

    (Mid-90s Los Angeles (LA) भूकम्पं स्मृत्वा)

    • एतदेवानुसृत्य भाषात्रयमुपयुज्य (संस्कृतविदुषां क्षमां याचन्) —
      कदाचिद्दिग्गजः कश्चिच्चालयामास रे भुजम् ।
      का गतिर्भो वराकाणां सर्व-shook-ಲಾ वसुन्धरा ॥
      ಲಾ – synonym ಪ್ರತ್ಯಯ for ಲೋ, ಓ, ಕಣೋ

      • very novel attempt:-)
        But the word “yaacan’ needs to be replaced by “yaacamanaH” as it is aatmanEpadi dhaatu

        • क्षम्यताम् ! जानन्नपि विस्मृतवान् !! स्मारणार्थं धन्यवादः ।

  14. आवृता पीतदुग्धेन क्षीरोदेन शुभाभवत् |
    बालकृष्णमुखे मुग्धे सर्वशुक्ला वसुन्धरा ||

    (वसुन्धरा मुग्धे बालकृष्णमुखे पीतदुग्धेन क्षीरोदेन आवृता सर्वशुक्ला शुभा अभवत्)
    inspired by “कैलासे नवनीतति..” by लीलशुक hopefully I’m not doing any injustice to his sublime verse. corrections welcome

  15. Some parihAras:

    मात्राज्ञप्तशिशुव्यात्ते मृदश्नव्याजसम्भ्रमे ।
    गोपालदन्तगोभिर्वै सर्वशुक्ला वसुन्धरा ॥ 1 ||

    In the commotion caused by Krishna’s alleged eating of mud, His mother ordered the Divine Child to open His mouth. In (the entire universe that Lord Krishna showed in) his mouth, Mother Earth shone, illuminated by the (Go) rays of light from the sparkling teeth of Gopaala.

    हिरण्याक्ष-शमात्तुष्टा वराहवदनोद्धृता ।
    विषाणोर्ध्वकरै: स्नाता सर्वशुक्ला वसुन्धरा ॥ 2 ||

    Mother Earth, satisfied by HiraNyAkSha’s demise, was lifted up by Lord VarAha with His snout. Bathed in the light of His tusks, Mother Earth shone indeed!

    प्रदूषण-कलङ्काच्च मुखकान्ति-समृद्धये ।
    शीनफेन-समाच्छन्ना सर्वशुक्ला वसुन्धरा ॥3||

    Darkened by pollution, Mother Earth decided to improve her facial complexion and hence soaped her (sur)face with snow. During that lathering process, she appeared all white. (Suggestion: Mother Earth periodically does ice ages to rid herself of pollution J)

    निरुद्यमेन निर्मात्रा वेधसा खेलतैकदा ।
    भ्रामिता चाचला भीता सर्वशुक्ला वसुन्धरा ॥ 4 ||

    The jobless creator, in his playful self, once rotated Mother Earth making her white (with fear). (Note: You get a white disk when you rotate a multi-colored disk)

    दारुणे विश्वसङ्ग्रामे मदापहृतचेतसै- ।
    -रण्वस्त्रस्फोटितैर्हन्त! सर्वशुक्ला वसुन्धरा ॥ 5||

    During a terrible world war, multiple atom bombs were exploded by those deluded by power making our earth white with heat, God Forbid!

    मेदिन्याः शैशवे पित्रा बालाभा-वर्धनेप्सुना ।
    धूलिता वायुनोष्णेन सर्वशुक्ला वसुन्धरा ॥ 6||

    In Mother Earth’s baby-hood, her father (interested but obviously clueless – like all other dads when it comes to these matters), desirous of improving his baby’s complexion, dusted her with a powder (of hot gas) to make her all white. (Note: Earth when formed was a ball of white gas)

    वैशाखे पूर्णिमायां खे लुम्बिन्यां शाक्यवाटके ।
    द्यौर्भूमिचन्द्रकीर्तिभ्यां सर्वशुक्ला वसुन्धरा ॥ 7 ||

    On the full moon day of VaishAkha in the sky and in the Shakya Garden at Lumbini (on earth – when Buddha was born), the earthen fame and the moon in the sky brighten the earth indeed.

    मार्कण्डेयतपःकाले गौरीपति-समुद्भवे ।
    चन्द्रभस्मस्मितैः कीर्त्या सर्वशुक्ला वसुन्धरा ॥ 8 ||

    Lord Shiva, when he appeared after Markandeya’s tapas, made the earth all bright with His moon, ash, smile and fame.

    नीलाम्बुवसनां भूमिं सस्यश्यामलकञ्चुकाम् ।
    व्यर्थेनाजानता प्रोक्ता सर्वशुक्ला वसुन्धरा ॥ 9 ||

    The earth is known to have blue clothes in the form of the sea and greenery as her upper garment. Indeed, it is claimed by those not in the know that the earth is all white.

    Final one!

    साधु-राज-सुधाकीर्त्या देवानां रदनैर्नखैः ।
    देववाण्यां सदा ह्येवं सर्वशुक्ला वसुन्धरा ॥ 10 ||

    In Sanskrit literature, you have several great men and kings whose fame is white. Of course, you have devas who illuminate everything with their nails, smiles and teeth. Thus, in such a literature, such a well-lit earth is indeed white and bright!

  16. (ಹಾಲು ಕುಡಿಯಲು ನಿರಾಕರಿಸುತ್ತಿರುವ ತಿಂಗಳು ಹಾಲಿನ ಪಾತ್ರೆಯನ್ನು ಜಾರಿಸಲು, ಆ ಹಾಲೆಲ್ಲ ಅವನ ತಾಯಿಯಾದ ಭೂಮಿಯ ಮೇಲೆ ಚೆಲ್ಲಿ ಅವಳು ಬೆಳ್ಳಗಾದಳು)
    ಕ್ಷೀರಪಾನ-ನಿರಾಸಕ್ತೇ ಪೂರ್ಣೇನ್ದೌ ಸ್ರಸ್ತಪಾತ್ರಕೇ
    ದುಗ್ಧಕ್ಲಿನ್ನಾ ತದಾ ಮಾತಾ ಸರ್ವಶುಕ್ಲಾ ವಸುಂಧರಾ ||
    (ಒಬ್ಬ ತಾಯಿಯಾಗಿ, ನಿಜವಾಗಿಯೂ ಮಗು ಹಾಲು ಚೆಲ್ಲಿದರೆ ಇಷ್ಟು ಮನೋಹರವಾಗಿರುವುದಿಲ್ಲ ಎಂದು ಹೇಳಬಲ್ಲೆ 🙂

    ಗ್ರೀಷ್ಮಋತುವಿನಲ್ಲಿ ಹೊಸ ಮೋಡಗಳ ಆಲಿಂಗನದಿಂದ, (ಮಳೆಗಾಗಿ ಕಾತರಿಸುತ್ತ ಮೇಲೆ ನೋಡುತ್ತಿರುವ ಕೊಬ್ಬಿದ ನವಿಲುಗಳಿಂದ, ಮಲ್ಲಿಗೆಯ ಮಾಲೆಗಳಿಂದ ಭೂಮಿಯು ಬೆಳ್ಳಗಾಗಿದೆ)
    ನವಮೇಘ-ಪರಿಷ್ವಂಗೈರುದ್ವೃತ್ತ-ಶಿಖಿದೃಷ್ಟಿಭಿಃ
    ಮಲ್ಲಿಕಾಮಾಲಿಕಾಭಿಶ್ಚ ಸರ್ವಶುಕ್ಲಾ ವಸುಂಧರಾ ||

    • तां वाणीं ललितां वन्दे कुजः चन्द्रायते यया 🙂

    • अत्यद्भुतॆ हि ललितॆ ! भवदीयपद्यॆ
      सर्वात्मना सुरसनूतनकल्पनाक्तॆ ।
      पूर्वं तु पद्यपद्यमतिमात्रमुदारमुग्धं
      पद्यं परं च मधुरामलरीतिरम्यम्॥

    • ಒಬ್ಬ ತಾಯಿಯಾಗಿ, ನಿಜವಾಗಿಯೂ ಮಗು ಹಾಲು ಚೆಲ್ಲಿದರೆ ಇಷ್ಟು ಮನೋಹರವಾಗಿರುವುದಿಲ್ಲ ಎನ್ನುವಿರೇಕೆಂದರೆ:
      ಕರಂಭ||
      ಪಾಲನ್ನು ಚೆಲ್ಲಲ್ ಮಗು, ಕೋಪಗೊಳ್ಳೆ ನೀಂ
      ಕಲಾವಿದರ್ ಕಾಣಿರ ಕಾರಣಂ ವಲಂ?
      ಬಾಲಂ ನಿಜೋರುಕ್ರಮಿಸುತ್ತೆ ತಾಯಿಯಾ
      ಸಲೀಲದಿಂ ತೊಯ್ಸುವ ಮಾತೆವಸ್ತ್ರಮಂ||

    • ಎಂತಹ ಸುಂದರ ಕಲ್ಪನೆ ! ಮಕ್ಕಳ ಮಲಿನತೆಯನ್ನು ಕಾಣಲು ಭೂಮಿತಾಯಿ ಶ್ವೇತವಸ್ತ್ರ ಧರಿಸಿಹಳೇನೋ? ಅನ್ನುವ ಕಲ್ಪನೆಯಲ್ಲಿದ್ದೆ, ಅವಳು “ಸರ್ವಶುಕ್ಲ”ಳಾದದ್ದು ತನ್ನ ಮಗುವಿನಿಂದ ಎನ್ನುವ ಕಲ್ಪನೆ ಮುದನೀಡಿದೆ. ಧನ್ಯವಾದಗಳು ಶ್ರೀಲಲಿತಾ ಮೇಡಂ. (ನೀವು ಕನ್ನಡದಲ್ಲಿ ಮುದ್ರಿಸಿದ್ದರಿಂದ ಓದಿಕೊಳ್ಳಲು ಸಾಧ್ಯವಾಯಿತು. ನನಗೆ ಸಂಸ್ಕೃತ ತಿಳಿಯದರಬಗ್ಗೆ ಪಶ್ಚಾತಾಪವಿದೆ. ಶೀಘ್ರದಲ್ಲೇ ಸಂಸ್ಕೃತ ಕಲಿಕೆ ಆರಂಭಿಸುವೆ)

  17. ब्रम्हाण्डे विहितव्योम्निs क्षीरमार्गानुसारिणी
    सितिम्नावृतकाया सा सर्वशुक्ला वसुंधरा

    क्षीरमार्ग = क्षीरपथ
    क्षीरपथे या सितिम्नावृता तिष्ठति सा सर्वशुक्ला खलु?

    कृपया दोषनिवारणं कुर्वन्तु

  18. इन्दुसंसर्गतृष्णा च पूर्णिमाह्लादमानसा
    पक्षांते सेचिता धात्री सर्वशुक्ला वसुंधरा
    पक्षांते = शुक्लपक्षांते
    वर्षिता = चंद्रिकया वर्षिता

    • विचारः रमणीयः । कश्चित् संशयो वर्तते । (चन्द्रिकया) वृष्टा इति भवेत्खलु ? अथवा स्वार्थे णिच् इष्टं किम्?

    • As Naresh has pointed out I think it should be preraNArthaka (nich pratyaya) which would make it varshayitA and spoil the chandas.One option is to make it sechitA

      • धन्यवाद: राघवेंद्रेण, नरेशमहोदयेन ललितया च यथोक्तं तथा परिवर्तित:

  19. Another one –

    धवले सङ्गरं याते ग्ऱुहीत-श्वेतकेतनैः
    राजभिः पाण्डुरैर्-भीत्याः सर्वशुक्ला वसुन्धरा ॥

    When Arjuna went to war, the Earth became white with kings who were white with fear and were holding white flags (as a mark of submission).

    dhavala is another name for Arjuna (dhavalorjunaH – amarakosha).

    • रमणीयतमं पद्यं रमणीया च कल्पना ।
      अभिनन्दामि भवतीं ललितां वाचि लालिताम्॥

    • वाणीवक्षोविलोलत्रिसरपरिलसन्मौक्तिकव्यक्तसख्या
      तत्पादोपान्तखेलन्नवधवलगरुद्राजिनीराजितश्रीः ।
      स्यादासूर्येन्दु कीर्तिस्तव कवनविधौ तन्मनोहारिहास-
      ज्योत्स्नाकृत्स्नोपमानग्रहणपरिणता राघवेन्द्रस्य कान्ते ॥

  20. ಭೂಮಿಯನ್ನು (वसु) ಹೊತ್ತ (धर) ಆದಿಶೇಷ ಯಾವಾಗ ಹೆಣ್ಣಾದ?
    सास्तु वर्णे सुनीला या सर्वशुक्ला वसुंधरा।
    आदिशेषो न जानेsहं मानवीया कदाभवत्॥

    • प्रसाद-महोदय, वसुर्नाम श्री: अथवा अमूल्यं वस्तु किमपीति मे मति: | कथं वसुर्महीति स्वीक्रियते भवता ? अपि च मानवी नाम स्त्री | मानवीया नाम का ?

    • Raghavendra,
      I referred MW now. Yes, vasu does not mean earth. My misunderstanding. mAnavIyA – I presumed the ‘yA’ suffix will serve. Mistake again. I will switch back to homework mode. Thanks.

  21. तनुस्स्त्रीलिङ्गशब्दत्वात् तथा शेषॊsपि वर्णतः।
    सितत्वाद् युज्यतॆ पद्यं सर्वशुक्लावसुंन्धरा ॥

    इति भवतः कल्पनां समर्थयितुं वा निरकर्तुं शक्यम्। तथापि वसु इति चेत् संपदिति; वसुमती वा वसुधा अथवा वसुन्धरा इति चेत् पृथिवी किल:-)

  22. यतस्त्वद्यशसा जाता सर्वशुक्ला वसुन्धरा ।
    ततो विचिनुते राजन्नुमा पितरमद्रिषु ॥
    ರಾಜನೇ, ನಿನ್ನ ಯಶಸ್ಸಿನಿಂದ ಭೂಮಿಯು ಬೆಳ್ಳಗಾಗಲು, ಪಾರ್ವತಿಯು ಬೆಟ್ಟಗಳ ಮಧ್ಯೆ ತನ್ನ ತಂದೆಯನ್ನು ಹುಡುಕುತ್ತಿರುವಳು.
    नृप त्वद्यशसा जाता सर्वशुक्ला वसुन्धरा ।
    द्विषामयशसा हन्त श्यामलीक्रियते पुनः ॥
    ರಾಜನೇ, ನಿನ್ನ ಯಶಸ್ಸಿನಿಂದ ಬೆಳ್ಳಗಾದ ಭೂಮಿಯು ನಿನ್ನ ವೈರಿಗಳ ಅಯಶಸ್ಸಿನಿಂದ ಮತ್ತೆ ಶ್ಯಾಮತ್ವವನ್ನು ಹೊಂದಿದೆ.

  23. श्रावं श्रावं भव्त्काव्यं भारती विस्मितिस्मिता।
    अनॆन हेतुना नूनं सर्वशुक्ला वसुन्धरा ॥

    having listened to your poetry often and often, the Goddess of poesy is spell bound and emerges with a sparkling smile. This indeed is the real cause for the whole world to go white:-)

  24. मृतगीर्वाणभाषाभीत्यन्धकारविनाशकैः ।
    कविभिः पद्यपानस्य सर्वशुक्ला वसुन्धरा ॥

  25. शुक्लकृष्णावुभौ नित्यौ क्षयवृद्धिनिमित्तकौ ।
    त्वयि शासति भो राजन् ! सर्वशुक्ला वसुन्धरा ॥

  26. क्षन्तव्यम् । द्वितीयपाद ईषत् परिवर्त्यः । वृद्धिहानिनिमित्तकौ इति ।

  27. ಲಿಪಿ —

    ನನ್ನದೊಂದು ಸಣ್ಣ ಮನವಿ…

    ಸಂಸ್ಕೃತ ಸಮಸ್ಯೆಗಳನ್ನು ದೇವನಾಗರಿ ಲಿಪಿಯಲ್ಲಿಯೇ ಏಕೆ ಪರಿಹರಿಸಬೇಕು, ಕನ್ನಡವನ್ನು ಬಳಸಬಹುದೇ?

    ಕನ್ನಡದಲ್ಲಿ ಸಂಸ್ಕೃತಾಭ್ಯಾಸ ಮಾಡುವವರಿಗೆ ಇದು ಸಹಕಾರಿಯಾಗುವುದಲ್ಲವೇ?

  28. With a tip of the hat to the original sarvashuklA verses –

    नीलोत्पलदलश्यामा विज्जिकावतरद्यदा ।
    तया संकृष्टकृष्णत्वात् सर्वशुक्ला वसुन्धरा ॥

  29. वामनेनाखिला व्याप्ता पदमात्रेण सा क्षणात् ।
    अस्ति तत्तेजसा दीप्ता सर्वशुक्ला वसुन्धरा ॥

 Leave a Reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)