karI – the one with kara (sudarshana) parilunAti – destroys – panchAnanaM (mura)
On the festival of the fourteenth day of the dark fortnight of Ashvina, the effulgent discus-weapon of the Lord with its hundreds of rays, destroys the great five faced asura Mura in the flooded battlefield that is like a cave for crabs.
I saw your mail and I was not knowing the vikalpa-s to this word as I had never come across such form in the literature that I had read. However I always feel that if lexicons or dictionaries approve other forms, one and all can happily use them. As our good friend Sudheer says, na kEvalaM aaptavaakyaM pramaaNaM, ApTE (V S Apte) vaakyamapi pramaaaNaM 🙂
An astronomer was viewing the sky (through a powerful telescope, of course) and when he saw a cluster of stars in the Crab Nebula, his imagination saw a beautiful picture and he marvelled at the creation of God.
स्वपत्सु बहु-भीषणं — बहु-विचित्र-कोलाहलः
क्वचिद् वदन-पञ्चकं — भवति मानुषे वैरिणि।
ततो बृहति कर्कटे — ऽतिगजगात्रता कल्पिता
कुलीरकुहरे करी — परिलुनाति पञ्चाननम्॥
Thanks for this fast solution in spite of the difficulty of the samasyaa. However, the samasyaa has remained as it is:-)
किमनया परिहृता समस्या 🙂
कुलीर इव भासते — तटगतस् तु वेदोदधेः
भवेत् तु दुरहङ्कृतिः — मनसि कॢप्तपञ्चाननः।
तदीयहनने जपेत् — विनयदं सुहस्त्याननम्
कुलीरकुहरे करी — परिलुनाति पञ्चाननम्॥
[कॢप्त इति सम्यक् न दृश्यते चेत् – तत्र kLLpta इति अवगम्यताम्।]
शरीरहितमानसः पथिकजल्पनं संदधौ
फलं तदमृतोपमं! स कपराक्षिकार्थं ययौ ।
रसाय दृढकर्कटाकृतिसमे फलक्षोभके
कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥
कपराक्षि इति फलविशेषः । तस्य सन्ति पञ्च मुखानि ।
कश्चित् शरीरहितकांक्षी पथिकजल्पनं संदधौ श्रुतवान् । तत्फलम् अमृतोपमम् इति । झटिति फलं प्राप्तवान् ।
तत्फलरसं प्राप्तुं सः करी पुरुषः कर्कटाकृतिसदृशे फलक्षोभके (जूसर् यन्त्रे) फलं परिलुनाति ।
शीर्यात् शरीरमिति ज्ञात्वापि कथमपि तद्रक्षणे यत्नः!
सुन्दरम् – starfruit कपराक्षिका इति अधुना ज्ञातम्।
उत्तमः प्रयत्नः। ईदृशैरेव यत्नैस्संस्कृतकाव्ये किमपि नावीन्यं किलावतरेत् ।
नरेन्द्रमुरुविक्रमं जयति केज्रिवाल् इत्यसौ
ददौ ’सुमति’सोनिया प्रवरदेहलीविष्टरम् ।
न वेत्ति विफलं भवेदिदमिति भ्रमाढ्या, कथं
कुलीरकुहरे करी परिलुनाति पञ्चाननम् ?॥
अति सुन्दरम्।
च्रिराय किल दर्शितं बहुनिरीक्षितं सुन्दरं
वयस्यवरकल्पितं सदसि रामकृष्णोदितम् ।
ಉತ್ತಮಃ ಪರಿಹಾರಃ !
साक्षात् कथावस्तुनिर्देशेन इदं पूरणम् – (हर्क्युलीस् कथाभागः अयम्)
वधेन परितप्तधीः सुतगणस्य षट्कस्य यो
द्वयं च दश साहसान् स्वशमनाय कर्तुं गतः ।
क्षिपन् सपदि कर्कटं नभसि हेरया प्रेषितं
कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥
पञ्चाननम् = ह्यैड्रा
इयं कथा कर्कटराश्याः उच्यते । हर्य्क्युलीस् पञ्चाननेन युद्धे यदा प्रवृत्तः तदा हेरया प्रेषितं कर्कटं तस्य पादं दशति । तं कर्कटं नभसि क्षिपन् पञ्चाननम् अपि मारयति ।
नरेशकविभारती जयति यावनीयाकृतिं
प्रकल्प्य निजपूरणॆ रसिकचित्तसंतुष्टये ।
ग्रथितं नु समर्थश्चेत् पदविधिर्महात्मना ।
कथं तर्हि समासोऽयं प्रथमे नु पदे गुरो ?!
मम संतोषः ।
एवं स्यात्? भारती नाम वाणी वा काव्यम्। कवेर् भारती कविभारती। नरेशस्य कविभारती नरेशकविभारती।
अन्यथा एवं स्यत् – नरेशो नाम कविः नरेशकविः। तस्य भारती नरेशकविभारती।
सविनोदमुक्तं भोः । मम नाम्ना कविशब्देन समासः इति कृत्वा ।
चतुर्दशतमे दिने बहुल आश्विने कौतुके ।
जलावृत-महारणे स्थितमहासुरं तं मुरम् |
शतै:किरणकैर्विभोः भसितमानचक्रायुधो ।
कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥
karI – the one with kara (sudarshana) parilunAti – destroys – panchAnanaM (mura)
On the festival of the fourteenth day of the dark fortnight of Ashvina, the effulgent discus-weapon of the Lord with its hundreds of rays, destroys the great five faced asura Mura in the flooded battlefield that is like a cave for crabs.
चतुर्दशतमे दिने बहुल आश्विने कौतुके ।
जलावृत-महारणे स्थितमहासुरं तं मुरम् |
शतै: किरणकैर्विभुर्भसितमान-चक्रायुधः ।
कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥
Effulgent Krishna destroys the five faced Mura in a water-filled battlefield. (Pls disregard the previous one)
चतुर्दशमहादिने बहुल आश्विने कौतुके ।
जलावृत-महारणे स्थितमहासुरं तं मुरम् ॥
शतै: किरणकैर्विभुर्भसितमान-चक्रायुधः ।
कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥
nidrAlunA mayA doShA anekAH kRutAH 🙂
प्रियराघवेन्द्रार्य, भसितमान इति पदं कथं साध्यम्?
satyaM. tathaa ca anEkE iti vaktvavyE anEkaaH iti skhaalityaM. kRpayaa paarihriyataaM dOShaH.
महारणसमुद्यमे बहुल आश्विने कौतुके ।
तमोवृत-जलाशये स्थितमहासुरं तं मुरम् |
गृहीतपरमायुधः स्मितमुखो हरिर्लीलया ।
कुलीरकुहरे करी परिलुनाति पञ्चाननम् ॥
kShantavyoham budhaiH |
naukAdvayaprayANasya kathaM vA lakShya-sAdhanaM? 🙂
doShaH parihRutaH kimanena padyena?
aneke ityasya sAdhutA siddhA | “anekAH” iti shabdo.api kutrApi prayukto dRShTaH |
सर्वमधुना परिष्कृतमिति मन्ये। सुन्दरमस्ति।
ಅನೇಕಶಬ್ದಸ್ಯ ಸರ್ವನಾಮ್ನಃ ಸ್ತ್ರೀಲಿಂಗರೂಪಂ ಬಹುವಚನೇ ತು ’ಅನೇಕಾಃ’ ಇತ್ಯೇವ| ಕಿಂ ಚ ಪುಂಸಿ ’ಅನೇಕೇ’ ಇತಿ ಖಲು:-)
I saw your mail and I was not knowing the vikalpa-s to this word as I had never come across such form in the literature that I had read. However I always feel that if lexicons or dictionaries approve other forms, one and all can happily use them. As our good friend Sudheer says, na kEvalaM aaptavaakyaM pramaaNaM, ApTE (V S Apte) vaakyamapi pramaaaNaM 🙂
मयापि श्रुतमिदं वैयाकरणमतम् –
बहुव्रीहौ कृते अनेकाः इत्येव भवति।
न एकः येषु ते जनाः = अनेकाः जनाः।
परन्तु अनेके जनाः = अनेकश्च अनेकश्च अनेकश्च जनाः।
ख-दर्शनकरॊऽवदद्-वर-खगॊल-तज्ञॊ मुदा
“चकास्ति पुरतॊ व्रजः प्रखर-तारकाणां यथा ।
कुलीरकुहरे करी परिलुनाति पञ्चाननं
ह्यपार-गगनॆऽद्भुतं व्यरचयन्न किं किं विधिः” ॥
An astronomer was viewing the sky (through a powerful telescope, of course) and when he saw a cluster of stars in the Crab Nebula, his imagination saw a beautiful picture and he marvelled at the creation of God.
सुन्दरी कल्पना। व्यचारयन् इत्येव स्यात् णिजन्तरूपम्।
अयि भॊः सुहृद्वर सुधीर! नितरां हृद्या कल्पना । भवादृशा एव चैवं विधं कल्पयितुं कवयितुं किल समर्थाः ।
वयस्यवर विश्वास ! तत्र भवता सुधीरॆण साधुशब्द एव प्रायोजि ।
“व्यरचयत् (वि+अरचयत्) + न किं ….” इति सन्धिः। न तत्र शतृप्रयॊगः। अपि च रचयति इति चुरादिगणीयश्शब्दॊ विद्यत एव ।
सुष्ठु ज्ञापितोऽहमार्य राग।