पद्यपाने संस्कृतपद्यमासः ९ : अलङ्कारयुतवर्णनम् अलङ्कारयुतवर्णनम्, संस्कृत पद्यानि Add comments Apr 032014 अस्मिन् मासे वयं वसन्तऋतुसंबन्धिनः वस्तूनां वर्णनं व्यतिरेक/विभावना/उल्लेखालङ्कारं उपयुज्य कुर्मः 34 Responses to “पद्यपाने संस्कृतपद्यमासः ९ : अलङ्कारयुतवर्णनम्” विश्वासो वासुकिजः says: April 4, 2014 at 7:43 pm [व्यतिरेकः] उष्णं जलमिवौष्ण्यं ते वसन्त सुखवर्धनम्। केलिधूलिप्रसक्तेस् त्वं वस्त्राणि तु प्रदूषयेः॥ Reply R.Ganesh (ರಾಗ) (रागः) says: April 7, 2014 at 9:44 am नात्र पद्यभावो मे स्फुटतामजनि । अन्यच्च व्यतिरेकस्य कथमत्र समुचितं लगनमित्यपि संशीतिर्मम । Reply विश्वासो वासुकिजः says: April 8, 2014 at 7:10 am वसन्तः उष्णजलेन उपमितम्। स्नाने प्रयुज्यमानस्य जलस्येव वसन्तर्तोर् औष्ण्यं भवति सुखप्रदम् इति साधारणधर्मः। परन्तु, उष्णजलस्य प्रयोगो भवति वस्त्रप्रक्षालने, तेन उष्णजलम् वस्त्रशोधकमस्ति, वसन्तस् तु केलीः प्रेरयन् वस्त्राणि प्रदूषयति इत्य् अविव्यञ्जिषम्। व्यङ्ग्ये प्रयत्नो नासीत् सफल इव भाति। “व्यतिरेको विशेषश्चेदुपमानोपमेययोः। शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः॥५७॥” इत्याश्रित्यात्रास्ति व्यतिरेक इत्य् अचिन्तयम्। Reply R.Ganesh (ರಾಗ) (रागः) says: April 8, 2014 at 1:53 pm हन्त ! ध्वन्यध्वनीनस्त्वहं वाच्यविश्रान्तस्संजातः 🙂 ममाभिप्रायस्तु ; ’नात्र काव्यं किमप्यस्ति वार्तामेव विलोकये ’ इति 🙂 सालङ्कृतस्यापि पद्यस्य चमत्कारविरहितस्य नास्वादसंभव इति तात्पर्यम् । Reply विश्वासो वासुकिजः says: April 9, 2014 at 11:22 pm कृतज्ञस् सविनयम् अङ्गीकरोमि यद् अत्र नास्त्येव कश्चन चमत्कारः, तेन चेदं पद्यम् अधमम् इति। काव्यगुणविवेकं भवत्प्रसादेन प्राप्य क्रमेण उत्तरकाव्यरचने प्रयतिष्ये :-)। रामप्रियः says: April 6, 2014 at 7:31 am कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्तेऽपि कुबेरराजः । निश्श्वस्य वायुं स्वमुखेन हैमां वृष्टिं तनोत्यत्र हि पल्लवेषु ॥ (अस्मिन् वर्षे वाषिङ्ग्टन् डि. सि. प्रदेशे वसन्तारम्भानन्तरं हिमपातः अभवत् ) । आगते चैत्रमासेऽपि हिमपातः प्रतीक्ष्यते । विकसन्ति न पुष्पाणि वसन्तः शिशिरायते ॥ (पुरा लिखितं गतवर्षस्य वसतारम्भे) Reply R.Ganesh (ರಾಗ) (रागः) says: April 7, 2014 at 9:41 am रमणीयं भवत्पद्यं प्रसना पदपद्धतिः । कल्पना च मनॊग्राहिण्य़ास्ते वासन्तवासिता ॥ Reply रामप्रियः says: April 7, 2014 at 3:27 pm धन्योऽस्मि । प्रथमपद्यस्य प्रथमपादः महाकविकालिदासस्य कुमारसम्भवादुद्धृतः इति वक्तव्यमेव । Reply विश्वासो वासुकिजः says: April 8, 2014 at 7:20 am अत्रोत्प्रेक्षैव ननु प्रथमपद्ये? Reply विश्वासो वासुकिजः says: April 8, 2014 at 6:57 am विभावनाप्रयत्ने प्राप्ता काचिदुत्प्रेक्षा। तृणानि केशा इव वर्धयन्ते सूर्येण तापात् भुवनस्य रक्षा। प्राप्ते वसन्ते स्फुटमत्र यत् सः सूर्यो हि तातः धरणी तनूजा॥ शीतलक्षेत्रेषु दृष्यते वसन्तागमनसन्दर्भे तृणवृद्धिः। तथा हि वसन्तः सूचयति वर्धमानं तापम्। Reply ನರೇಶ says: April 8, 2014 at 6:59 am वर्षायां शिखिनः कृशाङ्गसरितो नन्दन्ति सस्वागतं शैत्ये शुभ्रभवा तनोति पृथिवी रम्याद्भुतं दर्शितम् । औष्ण्ये तापगतेः स्वसद्मनि जना नित्यं रमन्ते मिथः सर्वेषां रतये भुवं हि कुरुते सूक्तां वसन्तो ननु ॥ सस्वागतम् स्वागतेन सह । औष्ण्ये तापकारणात् जनाः बहिरगत्वा गृहे एव सकुटुम्बं कालयापनेन रमन्ते । शैत्ये शुभ्रभवा पृथिवी हिमस्य कारणात् । अन्यत् स्पष्टं मन्ये । अत्र व्यतिरेकः? Reply विश्वासो वासुकिजः says: April 8, 2014 at 7:19 am सुन्दरमस्ति पद्यम्। नास्त्यत्र व्यतिरेक इति मन्ये। किञ्च तल्लक्षणम् – “व्यतिरेको विशेषश्चेदुपमानोपमेययोः। शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः॥५७॥” Reply ನರೇಶ says: April 8, 2014 at 7:51 am भवता भणितं साधु स्यात् । ’पद्मेन्दु … त्वया जिताः’ श्लोकं (व्यतिरेकस्य उदाहरणं) मत्वा एतत् चिन्तितम् । मम चिन्तनम् एवमासीत् – वृष्ट्याः आनन्दः, हिमस्य मनोहरदृश्यम्, निदाघेन कल्पितः सहकालः – एतत् सर्वं सर्वैः मनसि कल्पयितुं शक्यं, तत् सर्वमपि वसन्तः कर्तुं समर्थः (भिन्नैः प्रकारैरपि) । एवं वसन्तः तान् गुणान् सर्वान् जयति इति मतम् । Reply R.Ganesh (ರಾಗ) (रागः) says: April 8, 2014 at 1:49 pm उत्तममिदं पद्यं सर्वथा सभाजनार्हम् । Reply ನರೇಶ says: April 8, 2014 at 7:29 am निवृत्ते शीतले काले हिमेनादिममासके । ’टैडल्’ तडागसस्यानां कथं नु हिममण्डनम् ॥ वाषिङ्टन् प्रदेशे ख्यातः अयम् । आदिममासके चैत्रमासे शैत्ये हिमेन निवृत्ते ’टैडल् बेसिन्’ तडागे ’चेरी ब्लासम्स्’ इति सितपुष्पविकासः भवति । लतासु हिममिव तानि पुष्पाणि भवन्ति । अत्र विभावनालङ्कारः? Reply विश्वासो वासुकिजः says: April 8, 2014 at 8:31 am आम् – विभावना लक्ष्यते। “विभावना विनापि स्यात् कारणं कार्यजन्म चेत्। अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम्॥७७॥” Reply R.Ganesh (ರಾಗ) (रागः) says: April 8, 2014 at 1:47 pm भवतः अलङ्कारविवॆकः सुतरां स्तुत्यः 🙂 Reply R.Ganesh (ರಾಗ) (रागः) says: April 8, 2014 at 1:50 pm नूनमिदमतिनव्य्मातनोति चित्ते स्वारस्यसुषमाम् । Reply रामप्रियः says: April 9, 2014 at 3:27 pm साहित्यसङ्गीतकलाविहीनः श्रुण्वन्नवोचत् पिकवृन्दगानम् । “वसन्तकाले किल काककेली जाने न चाहं पिककाकभेदम् ” ॥ वसन्तकाले सम्प्राप्ते अपि साहित्यसङ्गीतकलाविहीनः पिककाकयोः भेदं न ज्ञातवान् । पिकगानं काकानां खेलनशब्द इति अचिन्तयत् ! Reply R.Ganesh (ರಾಗ) (रागः) says: April 9, 2014 at 10:39 pm भर्तुर्हरॆस्तथाsप्पय्यदीक्षितस्य वचःश्रियम् । यथानुकूलमुचितं गृह्णन्ती वाग्विशिष्यते ॥ Reply turanga says: April 10, 2014 at 11:34 am पञ्चमोपेतगानं तं श्रुत्वा कर्णरसायनम् | जीवशास्त्रविशेषज्ञः चिन्तयन्निदमब्रवीत् || कथं पिकानां वृन्दं स्यात् पिकास्त्वेकाकिनः खगाः | वीणागणसमुत्पन्नमिदं नास्त्यत्र संशयः || Reply रामप्रियः says: April 12, 2014 at 3:58 am भ्रातः – तव लेखनं मम मनसि एतत् श्लोकद्वयं समुद्भावयति ! अत्र स्थापयामि यद्यपि एतस्याः सालङ्कारपद्यश्रेण्याः नियमान् न पालयति । गान्धारदेशे षड्जाताः पञ्च पञ्चमकूजकाः । निषादनिहताश्चासन् प्रहता बहुधैव ते ॥ अगायन्मोहनाकारोऽवशिष्ट: पुरुषर्षभ । निषादान् मध्यमान् हित्वाऽदात् स कर्णामृतं ततः ॥ Reply विश्वासो वासुकिजः says: April 10, 2014 at 3:32 am पुष्पैस् सुपूर्णेषु च शृङ्गकेषु हिमं वसन्तस्य तदित्यवोचन्। अन्ये पृथिव्याः स्तनवस्त्रमाहुः केचित्तु सूर्याय तदीयपूजा॥ [उल्लेखालङ्कारः] Reply विश्वासो वासुकिजः says: April 10, 2014 at 4:24 am यज्ञा लुप्ता देवराजो न तृप्तः भुव्यौष्ण्यं तद् वर्धमानं नितान्तम्। एवं तर्हि स्यात् कथं दृश्यमेतत् चैत्रो मासो रम्यसस्यैस् सुपूर्णः॥ [विभावना] Reply ನರೇಶ says: April 10, 2014 at 7:05 am मैत्री या कथिता जनैः सनमनं रामाञ्जनेयोः परा लङ्कादाहनदर्शिता नहि भयं देहस्य दाहान्नु ते । तामत्येति वसन्तपञ्चशरयोः संस्मारणेनेव यत् कैलासं प्रतिवत्सरं घनहिमं क्लिश्नाति शंभोर्गृहम् ॥ या लङ्कादाहनदर्शिता रामाञ्जनेयोः मैत्री परा परमा इति “(हनूमन्) देहस्य दाहात् अपि न हि ते भयम्!” इति च जनैः सनमनं कथिता । तां (मैत्रीं) वसन्तपञ्चशरयोः वसन्तमन्मथयोः मैत्री अत्येति अतितिष्ठति । यत् यतः प्रतिवत्सरं शंभोः घनहिमं गृहं कैलासं (वसन्तः) संस्मारणेन इव क्लिश्नाति आर्द्रीकरोति । (शिवः मित्रं मन्मथं ददाह इति स्मारयन् शिवावासं प्रतिवर्षं तापयति ।) अत्र कश्चित् अलङ्कारः भवतीति मन्ये । विवेकस्तु अत्रभवद्भिः प्रार्थ्यते । Reply विश्वासो वासुकिजः says: April 10, 2014 at 8:13 am रामाञ्जनेययोर् इति स्यान्न वा? Reply ನರೇಶ says: April 10, 2014 at 10:26 am doh. बुभुक्षितोऽहमिति भाति । यकारे स्थिते छन्दोभङ्गः भवति । अतः प्रथमं पादम् एवं परिवरितं कथयामि । या वज्राङ्गबले रघोः कुलमणेर्मैत्रीरिता निर्वरा लङ्का … Reply रामप्रियः says: April 10, 2014 at 3:22 pm वसन्ते वर्धमाना सा सुन्दरी शाटिका भुवः । वर्धिनी नरकार्याणां धेनूनां देहवर्धिनी ॥ Reply ामकृष्णपेजत्तायः says: April 10, 2014 at 3:59 pm अहो ! प्रपन्नाः किल पञ्चभूयं मनोजबाणाश्च वियोगिनश्च । परं प्रकामं प्रथमानतेजा विजृम्भते कायजसायकौघः ॥ पञ्चभूयम् = पञ्चत्वम् । अस्य मनोजबाणपक्षे पञ्चसंख्यावत्त्वम् इत्यर्थः । वियोगिपक्षे तु मरणमिति । परम् = किन्तु, परन्तु । कायजसायकौघः = मन्मथशरसमूहः । Reply रामप्रियः says: April 12, 2014 at 4:04 am मन्मथस्तु मनोभव इति ख्यातः किल? अतः “विजृम्भतेऽकायजसायकौघः” इति भवितव्यमिति मन्ये यतः मन्मथः अकायजो भवेत् । प्रथमानतेजा इत्युक्ते किमिति सन्देहः मम । Reply विश्वासो वासुकिजः says: April 12, 2014 at 4:45 am प्रथ्-धातोः शानजन्तरूपं प्रथमानम् इति । प्रथमानम् तेजः प्रथमानतेजः। Reply R.Ganesh (ರಾಗ) (रागः) says: April 11, 2014 at 9:55 am तुरङ्ग-रामप्रिय-रामकृष्ण-नरेश-विश्वासमुखास्सहायाः। सालङ्कृतान्येव मनोहराणि पद्यानि हृद्यानि सतां सुखानि ॥ प्रणीय तच्चिन्तन-मन्थनेsपि बद्धादरा भान्ति किलेति भूयान् । हर्षो ममाभ्येति कृतज्ञता च सबाष्पनेत्रद्वितयात्प्रयाति ॥ Reply रामप्रियः says: April 12, 2014 at 3:51 pm प्रवातेनाप्यनुद्धूतहरिद्वस्त्रधरा धरा । पीतपुष्पोर्ध्वपुण्ड्रा सा विहरिद्रा विराजते ॥ (Our lawn just turned green and daffodils are in bloom) Reply विश्वासो वासुकिजः says: April 15, 2014 at 4:09 am वसन्तकाले नवगर्भयुक्ता विजृम्भते या हरिता सुवृत्ता। हेमन्तकाले ऽवधवा धरित्री श्वेतांशुके किं परित्यक्तकेशा? [विभावना] Reply Leave a Reply Cancel reply Your Comment You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong> Name (required) E-mail (required) URI Notify me of followup comments via e-mail. You can also subscribe without commenting. Check here to Subscribe to notifications for new posts
[व्यतिरेकः]
उष्णं जलमिवौष्ण्यं ते
वसन्त सुखवर्धनम्।
केलिधूलिप्रसक्तेस् त्वं
वस्त्राणि तु प्रदूषयेः॥
नात्र पद्यभावो मे स्फुटतामजनि । अन्यच्च व्यतिरेकस्य कथमत्र समुचितं लगनमित्यपि संशीतिर्मम ।
वसन्तः उष्णजलेन उपमितम्। स्नाने प्रयुज्यमानस्य जलस्येव वसन्तर्तोर् औष्ण्यं भवति सुखप्रदम् इति साधारणधर्मः। परन्तु, उष्णजलस्य प्रयोगो भवति वस्त्रप्रक्षालने, तेन उष्णजलम् वस्त्रशोधकमस्ति, वसन्तस् तु केलीः प्रेरयन् वस्त्राणि प्रदूषयति इत्य् अविव्यञ्जिषम्। व्यङ्ग्ये प्रयत्नो नासीत् सफल इव भाति।
“व्यतिरेको विशेषश्चेदुपमानोपमेययोः।
शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः॥५७॥” इत्याश्रित्यात्रास्ति व्यतिरेक इत्य् अचिन्तयम्।
हन्त ! ध्वन्यध्वनीनस्त्वहं वाच्यविश्रान्तस्संजातः 🙂
ममाभिप्रायस्तु ; ’नात्र काव्यं किमप्यस्ति वार्तामेव विलोकये ’ इति 🙂 सालङ्कृतस्यापि पद्यस्य चमत्कारविरहितस्य नास्वादसंभव इति तात्पर्यम् ।
कृतज्ञस् सविनयम् अङ्गीकरोमि यद् अत्र नास्त्येव कश्चन चमत्कारः, तेन चेदं पद्यम् अधमम् इति। काव्यगुणविवेकं भवत्प्रसादेन प्राप्य क्रमेण उत्तरकाव्यरचने प्रयतिष्ये :-)।
कुबेरगुप्तां दिशमुष्णरश्मौ
गन्तुं प्रवृत्तेऽपि कुबेरराजः ।
निश्श्वस्य वायुं स्वमुखेन हैमां
वृष्टिं तनोत्यत्र हि पल्लवेषु ॥ (अस्मिन् वर्षे वाषिङ्ग्टन् डि. सि. प्रदेशे वसन्तारम्भानन्तरं हिमपातः अभवत् ) ।
आगते चैत्रमासेऽपि हिमपातः प्रतीक्ष्यते । विकसन्ति न पुष्पाणि वसन्तः शिशिरायते ॥ (पुरा लिखितं गतवर्षस्य वसतारम्भे)
रमणीयं भवत्पद्यं प्रसना पदपद्धतिः ।
कल्पना च मनॊग्राहिण्य़ास्ते वासन्तवासिता ॥
धन्योऽस्मि । प्रथमपद्यस्य प्रथमपादः महाकविकालिदासस्य कुमारसम्भवादुद्धृतः इति वक्तव्यमेव ।
अत्रोत्प्रेक्षैव ननु प्रथमपद्ये?
विभावनाप्रयत्ने प्राप्ता काचिदुत्प्रेक्षा।
तृणानि केशा इव वर्धयन्ते
सूर्येण तापात् भुवनस्य रक्षा।
प्राप्ते वसन्ते स्फुटमत्र यत् सः
सूर्यो हि तातः धरणी तनूजा॥
शीतलक्षेत्रेषु दृष्यते वसन्तागमनसन्दर्भे तृणवृद्धिः। तथा हि वसन्तः सूचयति वर्धमानं तापम्।
वर्षायां शिखिनः कृशाङ्गसरितो नन्दन्ति सस्वागतं
शैत्ये शुभ्रभवा तनोति पृथिवी रम्याद्भुतं दर्शितम् ।
औष्ण्ये तापगतेः स्वसद्मनि जना नित्यं रमन्ते मिथः
सर्वेषां रतये भुवं हि कुरुते सूक्तां वसन्तो ननु ॥
सस्वागतम् स्वागतेन सह ।
औष्ण्ये तापकारणात् जनाः बहिरगत्वा गृहे एव सकुटुम्बं कालयापनेन रमन्ते । शैत्ये शुभ्रभवा पृथिवी हिमस्य कारणात् ।
अन्यत् स्पष्टं मन्ये ।
अत्र व्यतिरेकः?
सुन्दरमस्ति पद्यम्। नास्त्यत्र व्यतिरेक इति मन्ये। किञ्च तल्लक्षणम् – “व्यतिरेको विशेषश्चेदुपमानोपमेययोः।
शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः॥५७॥”
भवता भणितं साधु स्यात् । ’पद्मेन्दु … त्वया जिताः’ श्लोकं (व्यतिरेकस्य उदाहरणं) मत्वा एतत् चिन्तितम् । मम चिन्तनम् एवमासीत् – वृष्ट्याः आनन्दः, हिमस्य मनोहरदृश्यम्, निदाघेन कल्पितः सहकालः – एतत् सर्वं सर्वैः मनसि कल्पयितुं शक्यं, तत् सर्वमपि वसन्तः कर्तुं समर्थः (भिन्नैः प्रकारैरपि) । एवं वसन्तः तान् गुणान् सर्वान् जयति इति मतम् ।
उत्तममिदं पद्यं सर्वथा सभाजनार्हम् ।
निवृत्ते शीतले काले हिमेनादिममासके ।
’टैडल्’ तडागसस्यानां कथं नु हिममण्डनम् ॥
वाषिङ्टन् प्रदेशे ख्यातः अयम् । आदिममासके चैत्रमासे शैत्ये हिमेन निवृत्ते ’टैडल् बेसिन्’ तडागे ’चेरी ब्लासम्स्’ इति सितपुष्पविकासः भवति । लतासु हिममिव तानि पुष्पाणि भवन्ति । अत्र विभावनालङ्कारः?
आम् – विभावना लक्ष्यते।
“विभावना विनापि स्यात् कारणं कार्यजन्म चेत्।
अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम्॥७७॥”
भवतः अलङ्कारविवॆकः सुतरां स्तुत्यः 🙂
नूनमिदमतिनव्य्मातनोति चित्ते स्वारस्यसुषमाम् ।
साहित्यसङ्गीतकलाविहीनः
श्रुण्वन्नवोचत् पिकवृन्दगानम् ।
“वसन्तकाले किल काककेली
जाने न चाहं पिककाकभेदम् ” ॥
वसन्तकाले सम्प्राप्ते अपि साहित्यसङ्गीतकलाविहीनः पिककाकयोः भेदं न ज्ञातवान् । पिकगानं काकानां खेलनशब्द इति अचिन्तयत् !
भर्तुर्हरॆस्तथाsप्पय्यदीक्षितस्य वचःश्रियम् ।
यथानुकूलमुचितं गृह्णन्ती वाग्विशिष्यते ॥
पञ्चमोपेतगानं तं श्रुत्वा कर्णरसायनम् |
जीवशास्त्रविशेषज्ञः चिन्तयन्निदमब्रवीत् ||
कथं पिकानां वृन्दं स्यात् पिकास्त्वेकाकिनः खगाः |
वीणागणसमुत्पन्नमिदं नास्त्यत्र संशयः ||
भ्रातः – तव लेखनं मम मनसि एतत् श्लोकद्वयं समुद्भावयति ! अत्र स्थापयामि यद्यपि एतस्याः सालङ्कारपद्यश्रेण्याः नियमान् न पालयति ।
गान्धारदेशे षड्जाताः पञ्च पञ्चमकूजकाः । निषादनिहताश्चासन् प्रहता बहुधैव ते ॥
अगायन्मोहनाकारोऽवशिष्ट: पुरुषर्षभ । निषादान् मध्यमान् हित्वाऽदात् स कर्णामृतं ततः ॥
पुष्पैस् सुपूर्णेषु च शृङ्गकेषु
हिमं वसन्तस्य तदित्यवोचन्।
अन्ये पृथिव्याः स्तनवस्त्रमाहुः
केचित्तु सूर्याय तदीयपूजा॥
[उल्लेखालङ्कारः]
यज्ञा लुप्ता देवराजो न तृप्तः
भुव्यौष्ण्यं तद् वर्धमानं नितान्तम्।
एवं तर्हि स्यात् कथं दृश्यमेतत्
चैत्रो मासो रम्यसस्यैस् सुपूर्णः॥
[विभावना]
मैत्री या कथिता जनैः सनमनं रामाञ्जनेयोः परा
लङ्कादाहनदर्शिता नहि भयं देहस्य दाहान्नु ते ।
तामत्येति वसन्तपञ्चशरयोः संस्मारणेनेव यत्
कैलासं प्रतिवत्सरं घनहिमं क्लिश्नाति शंभोर्गृहम् ॥
या लङ्कादाहनदर्शिता रामाञ्जनेयोः मैत्री परा परमा इति “(हनूमन्) देहस्य दाहात् अपि न हि ते भयम्!” इति च जनैः सनमनं कथिता । तां (मैत्रीं) वसन्तपञ्चशरयोः वसन्तमन्मथयोः मैत्री अत्येति अतितिष्ठति । यत् यतः प्रतिवत्सरं शंभोः घनहिमं गृहं कैलासं (वसन्तः) संस्मारणेन इव क्लिश्नाति आर्द्रीकरोति । (शिवः मित्रं मन्मथं ददाह इति स्मारयन् शिवावासं प्रतिवर्षं तापयति ।)
अत्र कश्चित् अलङ्कारः भवतीति मन्ये । विवेकस्तु अत्रभवद्भिः प्रार्थ्यते ।
रामाञ्जनेययोर् इति स्यान्न वा?
doh. बुभुक्षितोऽहमिति भाति । यकारे स्थिते छन्दोभङ्गः भवति । अतः प्रथमं पादम् एवं परिवरितं कथयामि ।
या वज्राङ्गबले रघोः कुलमणेर्मैत्रीरिता निर्वरा
लङ्का …
वसन्ते वर्धमाना सा सुन्दरी शाटिका भुवः ।
वर्धिनी नरकार्याणां धेनूनां देहवर्धिनी ॥
अहो ! प्रपन्नाः किल पञ्चभूयं मनोजबाणाश्च वियोगिनश्च ।
परं प्रकामं प्रथमानतेजा विजृम्भते कायजसायकौघः ॥
पञ्चभूयम् = पञ्चत्वम् । अस्य मनोजबाणपक्षे पञ्चसंख्यावत्त्वम् इत्यर्थः । वियोगिपक्षे तु मरणमिति ।
परम् = किन्तु, परन्तु ।
कायजसायकौघः = मन्मथशरसमूहः ।
मन्मथस्तु मनोभव इति ख्यातः किल? अतः “विजृम्भतेऽकायजसायकौघः” इति भवितव्यमिति मन्ये यतः मन्मथः अकायजो भवेत् । प्रथमानतेजा इत्युक्ते किमिति सन्देहः मम ।
प्रथ्-धातोः शानजन्तरूपं प्रथमानम् इति । प्रथमानम् तेजः प्रथमानतेजः।
तुरङ्ग-रामप्रिय-रामकृष्ण-नरेश-विश्वासमुखास्सहायाः।
सालङ्कृतान्येव मनोहराणि पद्यानि हृद्यानि सतां सुखानि ॥
प्रणीय तच्चिन्तन-मन्थनेsपि बद्धादरा भान्ति किलेति भूयान् ।
हर्षो ममाभ्येति कृतज्ञता च सबाष्पनेत्रद्वितयात्प्रयाति ॥
प्रवातेनाप्यनुद्धूतहरिद्वस्त्रधरा धरा ।
पीतपुष्पोर्ध्वपुण्ड्रा सा विहरिद्रा विराजते ॥
(Our lawn just turned green and daffodils are in bloom)
वसन्तकाले नवगर्भयुक्ता
विजृम्भते या हरिता सुवृत्ता।
हेमन्तकाले ऽवधवा धरित्री
श्वेतांशुके किं परित्यक्तकेशा?
[विभावना]