पद्यपाने संस्कृतपद्यमासः १६ : ऋतुवर्णनम् वर्णनम्, संस्कृत पद्यानि Add comments Jan 012015 विविधालंकारान् उपयुज्य हेमन्तशिशिरयोः वर्णनं कुर्मः| 7 Responses to “पद्यपाने संस्कृतपद्यमासः १६ : ऋतुवर्णनम्” ಸೋಮ says: January 1, 2015 at 3:04 pm ಹೇಮಂತದ ಪರ್ವತಶಿಖರದವರ್ಣನೆ: हिमाच्छन्नाचलाग्रेस्मिन् बालार्करश्मिविभ्रमम् | दृष्ट्वास्मराम्युष: काले कन्याकैशिकधूपनम् || Reply Raaga (ರಾಗ) (रागः) says: January 5, 2015 at 11:01 pm Real good poem SOma, pl write more verses like this and enthrall all of us. Reply नरेशः says: January 4, 2015 at 12:03 am स आह – प्रेम्ण्यस्रवति नु त्वत्तो विगतोष्ण्ये प्रिये तव । हृदयं मे घनीभूतं शिशिरेषु जलं यथा ॥ (ಪ್ರಿಯೇ, ನಿನ್ನ ಪ್ರೀತಿ ನನ್ನೆಡೆಗೆ ಹರಿಯುತ್ತಿಲ್ಲವಲ್ಲ. ಅದನ್ನು ನೋಡಿ ನನ್ನ ಹೃದಯವೂ ಮಿಡಿಯುತ್ತಿಲ್ಲ). सा प्रत्याह – शीतवातेन निर्धूता हेमन्ते नगसिंहगा । तथा निर्मण्डनास्मीति प्रेक्षमाणो हि पृच्छसि ॥ नगसिंहगा = वृक्षश्रीः | (अत्र किंचित् विरोधालङ्कारस्य यत्नः) (सिंहगा = लक्ष्मीः यतः तस्याः वाहनं सिंहः) (ಹೇಮಂತದ ಶೀತಲವಾತದೊಂದಿಗೆ ವೃಕ್ಷಲಕ್ಷ್ಮಿಯು ಅಲುಗಾಡಿಸಲ್ಪಟ್ಟವಳಾಗಿ ಎಲೆಗಳನ್ನು ಕಳೆದುಕೊಂಡವಳಂತೆ ನಾನು ನಿರಾಭರಣವಾಗಿರುವದನ್ನು ನೋಡಿ ಕೇಳುತ್ತಿದ್ದೀಯೇ?!) Reply Raaga (ರಾಗ) (रागः) says: January 5, 2015 at 11:03 pm How come lion is the vaahana of Lakshmi? elephant is too well known and owl of course, in Bengal. Reply नरेशः says: January 6, 2015 at 5:20 am I think I may have super-imposed Durga’s on Lakshmi. My bad. Reply रामप्रियः says: January 10, 2015 at 9:29 pm क्षम्यतां दीर्घकालीनं मौनम् । दृष्ट्वा दूरे तरुनिचयमहो भासमानं ह्युदीच्याम् पर्णैर्युक्तं सुरभिसदृशं पीतरक्तादिवर्णै: । एवं चिन्ता मम मनसि भोरागता सा विचित्रा भाण्डारं स्वं प्रकटयति किं दानशूरः कुबेरः ॥ (हेमन्ते) ॥ दृष्ट्वा दूरे तरुनिचयमहो भासमानं ह्युदीच्याम् पर्णै रिक्तं विगतविभवं धूसरं शुष्करूपम् । एवं चिन्ता मम मनसि भोरागता सा विचित्रा दत्त्वा सर्वं प्रकटयति किं निर्धनत्वं कुबेरः ॥ (शिशिरे) ॥ Reply रामप्रियः says: January 11, 2015 at 1:45 am किञ्चित् परिष्कृतम् — दृष्ट्वा दूरे क्षितिजनिचयं भासमानं ह्युदीच्याम् पर्णैर्युक्तं सुरभिसदृशं पीतरक्तादिवर्णै: । एवं चिन्ता मम मनसि भोरागता सा विचित्रा भाण्डारं स्वं प्रकटयति किं दानशूरः कुबेरः ॥ (हेमन्ते)॥ दृष्ट्वा दूरे क्षितिजनिचयं दुःखितं शीतवातैः पर्णै रिक्तं विगतविभवं धूसरं शुष्करूपम् । एवं चिन्ता मम मनसि भोरागता सा विचित्रा दत्त्वा सर्वं प्रकटयति किं निर्धनत्वं कुबेरः ॥ (शिशिरे)॥ Reply Leave a Reply Cancel reply Your Comment You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong> Name (required) E-mail (required) URI Notify me of followup comments via e-mail. You can also subscribe without commenting. Check here to Subscribe to notifications for new posts
ಹೇಮಂತದ ಪರ್ವತಶಿಖರದವರ್ಣನೆ:
हिमाच्छन्नाचलाग्रेस्मिन् बालार्करश्मिविभ्रमम् |
दृष्ट्वास्मराम्युष: काले कन्याकैशिकधूपनम् ||
Real good poem SOma, pl write more verses like this and enthrall all of us.
स आह –
प्रेम्ण्यस्रवति नु त्वत्तो विगतोष्ण्ये प्रिये तव ।
हृदयं मे घनीभूतं शिशिरेषु जलं यथा ॥
(ಪ್ರಿಯೇ, ನಿನ್ನ ಪ್ರೀತಿ ನನ್ನೆಡೆಗೆ ಹರಿಯುತ್ತಿಲ್ಲವಲ್ಲ. ಅದನ್ನು ನೋಡಿ ನನ್ನ ಹೃದಯವೂ ಮಿಡಿಯುತ್ತಿಲ್ಲ).
सा प्रत्याह –
शीतवातेन निर्धूता हेमन्ते नगसिंहगा ।
तथा निर्मण्डनास्मीति प्रेक्षमाणो हि पृच्छसि ॥
नगसिंहगा = वृक्षश्रीः | (अत्र किंचित् विरोधालङ्कारस्य यत्नः)
(सिंहगा = लक्ष्मीः यतः तस्याः वाहनं सिंहः)
(ಹೇಮಂತದ ಶೀತಲವಾತದೊಂದಿಗೆ ವೃಕ್ಷಲಕ್ಷ್ಮಿಯು ಅಲುಗಾಡಿಸಲ್ಪಟ್ಟವಳಾಗಿ ಎಲೆಗಳನ್ನು ಕಳೆದುಕೊಂಡವಳಂತೆ ನಾನು ನಿರಾಭರಣವಾಗಿರುವದನ್ನು ನೋಡಿ ಕೇಳುತ್ತಿದ್ದೀಯೇ?!)
How come lion is the vaahana of Lakshmi? elephant is too well known and owl of course, in Bengal.
I think I may have super-imposed Durga’s on Lakshmi. My bad.
क्षम्यतां दीर्घकालीनं मौनम् ।
दृष्ट्वा दूरे तरुनिचयमहो भासमानं ह्युदीच्याम्
पर्णैर्युक्तं सुरभिसदृशं पीतरक्तादिवर्णै: ।
एवं चिन्ता मम मनसि भोरागता सा विचित्रा
भाण्डारं स्वं प्रकटयति किं दानशूरः कुबेरः ॥ (हेमन्ते) ॥
दृष्ट्वा दूरे तरुनिचयमहो भासमानं ह्युदीच्याम्
पर्णै रिक्तं विगतविभवं धूसरं शुष्करूपम् ।
एवं चिन्ता मम मनसि भोरागता सा विचित्रा
दत्त्वा सर्वं प्रकटयति किं निर्धनत्वं कुबेरः ॥ (शिशिरे) ॥
किञ्चित् परिष्कृतम् —
दृष्ट्वा दूरे क्षितिजनिचयं भासमानं ह्युदीच्याम्
पर्णैर्युक्तं सुरभिसदृशं पीतरक्तादिवर्णै: ।
एवं चिन्ता मम मनसि भोरागता सा विचित्रा
भाण्डारं स्वं प्रकटयति किं दानशूरः कुबेरः ॥ (हेमन्ते)॥
दृष्ट्वा दूरे क्षितिजनिचयं दुःखितं शीतवातैः
पर्णै रिक्तं विगतविभवं धूसरं शुष्करूपम् ।
एवं चिन्ता मम मनसि भोरागता सा विचित्रा
दत्त्वा सर्वं प्रकटयति किं निर्धनत्वं कुबेरः ॥ (शिशिरे)॥