May 192016
“कविर्मनीषी क्रान्तदर्शी” इति संस्कृत वाङ्गमये संस्तूयमानाः कवयः | रवेरगोचरं हि यत्कवेस्सुगोचरं हि तत् इति समस्यापादस्य हेतुः भारतीयाभाषासु तत्रापि कर्णाटभाषायां प्रसिद्धवाचोविच्छित्तिः/सुभाषितं “ರವಿ ಕಾಣದ್ದನ್ನು ಕವಿ ಕಂಡ” .

निपीतवारिजातमेघवारितेक्षणो दिवा
निशासु चास्ततल्पगश्चिराय निद्रितो रविः।
कविः सदोद्यतो वशी प्रदीपितान्तरीक्षणो
रवेरगोचरं हि यत्कवेः सुगोचरं हि तत् ।।
वधूर्नृपस्य पश्यक:कविस्तदाश्रय:सदा।
नृपालमंदिरांतरालनिष्प्रविष्टसुद्युती
रविर्न वीक्षते कदापि ता गृहान्तवासिनी
रवेरगोचरं हि यत्कवे:सुगोचरं हि तत्।।
लतां लतेव भासयत्ययं दिवाकर:करै:।
कवि:स्वचारुयुक्तियुक्तभाषितैर्मनोहरै:।।
लतां वधूमिव प्रवर्णयत्यचेतनामपि।
रवेरगोचरं हि यत्कवे:सुगोचरं हि तत्।।