May 192016
 

“कविर्मनीषी क्रान्तदर्शी” इति संस्कृत वाङ्गमये संस्तूयमानाः कवयः |  रवेरगोचरं हि यत्कवेस्सुगोचरं हि तत्  इति समस्यापादस्य हेतुः भारतीयाभाषासु तत्रापि कर्णाटभाषायां प्रसिद्धवाचोविच्छित्तिः/सुभाषितं “ರವಿ ಕಾಣದ್ದನ್ನು ಕವಿ ಕಂಡ” .

  3 Responses to “पद्यपाने संस्कृतपद्यमासः ३२ : समस्यापूरणम् :: रवेरगोचरं हि यत्कवेस्सुगोचरं हि तत् |”

  1. निपीतवारिजातमेघवारितेक्षणो दिवा
    निशासु चास्ततल्पगश्चिराय निद्रितो रविः।
    कविः सदोद्यतो वशी प्रदीपितान्तरीक्षणो
    रवेरगोचरं हि यत्कवेः सुगोचरं हि तत् ।।

  2. वधूर्नृपस्य पश्यक:कविस्तदाश्रय:सदा।
    नृपालमंदिरांतरालनिष्प्रविष्टसुद्युती
    रविर्न वीक्षते कदापि ता गृहान्तवासिनी
    रवेरगोचरं हि यत्कवे:सुगोचरं हि तत्।।

  3. लतां लतेव भासयत्ययं दिवाकर:करै:।
    कवि:स्वचारुयुक्तियुक्तभाषितैर्मनोहरै:।।
    लतां वधूमिव प्रवर्णयत्यचेतनामपि।
    रवेरगोचरं हि यत्कवे:सुगोचरं हि तत्।।

Leave a Reply to पवनः Cancel reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)