Sep 152017
 

दिनाङ्क- १८-१-२०१५
आयोजका: भारतीयविद्याभवनम्
स्थलः- भारतीयविद्याभवनम् बॆङ्गळूरु
अप्रस्तुतप्रसङ्गः- पृच्छकः श्री सुधीर कृष्णस्वामी
सङ्ख्याबन्धः – पृच्छिकाडा|| शान्ताशैवलिनी
निषेधः-पृच्छकःश्री कॆ ऎस् कण्णन्-
वस्तु-इस्लां आत्मावलोकनम्, अनुष्टुप् छन्दः (आवरणे विद्यमानानि अक्षराणि पृच्छकेन निषिद्धानि | तुरीये पादे विना निषेधेन पद्यं पूरितम्|)

(च)नि(य)र्म(म)हा(ज)म(ह)द(व)गी(भ)स्त(व)र्का
(च)न(य)र्म(द)हा(न)स(द)कृ(द)ता(ध)घ(ह)काः
(न)शा(त)म्य(न)ता(स)ढ्या(र)अ(थ)मी(भ)कौ(-)स्यु
रम्लेच्छा मधुराशयाः||

निर्महा मदगीस्तर्का नर्महासकृताघकाः |
शाम्यताढ्या अमी कौ स्युरम्लेच्छामधुराशयाः||

समस्यापूरणम्-पृच्छकः श्री वासुकि ऎच् ऎ
समस्या- मुहुर्मुहुश्चुम्बति देवरं सती |
वंशस्थवृत्तम्||
यथाप्रतिज्ञा द्रुपदेन्द्रकन्यया
कृतापुरा तामनुसृत्यसंप्रति |
विहायधर्मं न च धर्मवर्जिता
मुहुर्मुहुश्चुम्बति देवरं सती ||

दत्तपदी- पृच्छकः श्री नरेश कीर्तिः
वस्तु- शिवस्य नृत्यः, पदनि- मॆणसु, हिङ्गु, जीरा, मसाल
आर्या-
अभिरामेणसुपादन्यासेनकदर्थितोत्तमाहिं गुणिनम्|
चर्याराजीराजितवपुषं नटकामसालनीडे गिरिशम्||

अक्षरमुष्टिका कथनम्-पृच्छकः गणेश भट्ट कॊप्पलतोट
वस्तु- हिमालयः
स्वराः-
अअऎआइआअअ इआऒअअइअअः |
अअअएअईऊआ इउआइअअअआः||
पूरणम्|
कलये शान्तिसारस्यशिवालोकच्छविर्यतः|
भरतक्षेत्रभीत्यूष्माविबुधालिलसद्यशाः ||

आशुकवित्वम्-पृच्छकः श्री राघवेन्द्र जि ऎस्
१. कृष्णावतारस्य ध्येयः
वसन्ततिलक-
उद्धर्तुमद्यरजनीचरचक्रमेतत्
चक्रं करे लसतु कर्कशवह्निधारम्|
दुष्टात्मनां सपदि दुर्भरदर्पशृङ्ग
भङ्गायशार्ङ्गमपि मे भजतात् करोन्यः||

२.जम्बीरफलम्
पानीययोग्यं जलदोदयात् प्राक्
द्वारि प्रसूनैः सममेव बन्धः|
सकुङ्कुमं पादयुगे शिवायाः
जम्बीर! हन्तान्यसमाश्रयस्ते ||

३.(ನೀರೊಲೆ)
ज्वालाजालजटालनैकविलसल्लीलाकुकूलोच्चय(काष्टोच्चयं भावये)
प्रातस्त्वामयि सूर्यरश्मिनिकरप्रोतं जगन्मण्डलम् |
अङ्गारागमलं बिभर्षि भवता तर्तेन कोष्णाम्भसा
स्नानोहं ध्रुवमङ्गरागमधुना कुर्वे पयोयन्त्रकः||

४.चारणम्
इतश्चरचलौकसां दशनतो नवास्रस्रुति-
स्ततो भवति केसरीन्द्रपदपङ्क्तिरत्युज्वला |
अहो गिरिशिखाद्रुमागगनचुम्बिनो दृश्यतां
वितन्वत इमे वनभ्रमणसाहसी स्यां मुहुः ||

 Leave a Reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)