ವೀಣಾ ಉದಯನರ ೧೧ ಪದ್ಯಗಳು
वात्सल्यभावार्द्रपयोधरायाः
आशीविषैः सिक्तपयोधरायाः।
कंसानुजायाश्च कुपूतनायाः
लक्ष्यं मुकुन्दं मनसा स्मरामि॥१॥
चोर! क्व यातोऽसि दधि प्रणाश्य?!
वेत्रं गृहीत्वेत्थमनुद्रवन्त्याः।
वृन्दावने वन्दितनन्दवध्वाः
लक्ष्यं मुकुन्दं मनसा स्मरामि॥२॥
हा!त्रास्य तत्पिञ्छमियं हि तद्गौः
हा! ध्वानमन्योऽप्यसुरो हतः स्यात्।
अन्विष्यतामित्थमिदं(मं) सखानां
लक्ष्यं मुकुन्दं मनसा स्मरामि॥३॥
व्याजेन केनापि गृहस्य कृत्याद्
उत्थाय, पश्यामि कदा प्रिय! त्वाम्।
इत्याकुलस्त्रीकुललोचनानां
लक्ष्यं मुकुन्दं मनसा स्मरामि॥४॥
क्रूरेण नीतोऽस्ति कदैति वेति
प्रतीक्षणश्रान्तदृशेषितानाम्।
राधासुनिःश्वासजपत्रिकाणां
लक्ष्यं मुकुन्दं मनसा स्मरामि॥५॥
धर्माध्वरेऽग्रास्य भवेत् सपर्ये
त्युक्त्यैकमात्रं समभूद्यदित्थम्।
प्रेमाक्षमत्रासवदीक्षितानां
लक्ष्यं मुकुन्दं मनसा स्मरामि॥६॥
दुर्वृत्तदुश्शासनशास्यमानां
गोविन्द पाहीति तदा सभायाम्।
रोरुद्यमानद्रुपदात्मजाया
लक्ष्यं मुकुन्दं मनसा स्मरामि॥७॥
कामं परित्यज्य च सर्वधर्मान्
त्वं मां शरण्यं शरणं व्रजेति।
योऽबोधयत्तं परमार्थरूपं
लक्ष्यं मुकुन्दं मनसा स्मरामि॥८॥
धनुर्गृहीत्वौपनिषन्महास्त्रं
शरं ह्युपासानिशितं विधाय।
विन्दन्ति यं योगिन एकमात्रं
लक्ष्यं मुकुन्दं मनसा स्मरामि॥९॥
यो वै रसानामपि नीरसानाम्
आधार आनन्दनिधी रसः सः।
साहित्यगीतादिकलानदीनां
लक्ष्यं मुकुन्दं मनसा स्मरामि॥१०॥
यत्तत्त्वमस्यादिपदैर्विभाव्यं
यद्ब्रह्म सच्चित्सुखरूपमाद्यम्।
अज्ञानिनां ज्ञानवतां तदेकम्
लक्ष्यं मुकुन्दं मनसा स्मरामि॥११॥