Feb 062016
 

मासेऽस्मिन् विविधालङ्कारान् उपयुज्य नागरकहेमन्त/शिशिरऋतुवर्णनम् कुर्मः |

Jan 112016
 

समस्यापादस्तु विनीलमल्लीस्रगियं विभाव्यते इति | भवेन्न नीलमल्लिकापुष्पमित्यत्र समस्यायाः हेतुः | अवधानिवर्येण गणेशेन कृतमिदं परिहारद्वयम् |

जगत्त्रयीचातकचेतनोर्जितं घनाघनच्छायमुदीक्ष्य कृष्ण ते |
वपुस्समालं कविभिर्मनोहरं विनीलमल्लीस्रगियं विभाव्यते ||

महेन्द्रनीलाश्मविनिर्मिताग्रतश्चकास्ति मूर्तिः किल शिल्पिशीलिना |
तदीयकण्ठार्पितचित्रचित्रिला विनीलमल्लीस्रगियं विभाव्यते ||

 

Dec 082015
 

मासेऽस्मिन् कविशङ्करार्येण दत्तं वस्तु प्रभातवर्णनम् | श्लिष्टरूपकालङ्कारभूयिष्ठानि अथवा दृष्टान्तालङ्कारभूयिष्ठानि पद्यानि रचयामः |

Nov 102015
 

जालस्थानेऽस्मिन् संस्कृतविभागे अपूर्वदृष्टं प्रहर्षिणीछन्दः| समस्यापादमधुना “राधायां रतिमुपयाति रेवतीशः” | रेवतीशः बलरामः कथं कृष्णप्रियायां राधायां रतिमुपयातीति भागवतपुराणकथाकुठारप्राया समस्या |

Oct 072015
 

शलभतां लभतां हृदयं मम” इति द्रुतविलम्बितपद्यस्य अन्तिमपादं अस्मिन् मासस्य पद्यपूरणविभागपादं | मोदन्ते सहृदयहृदयानि यदि पूरणपद्यानां द्वितीयपादे अपि यमकलङ्कारः (यथा  “शलभतां लभतां..”) आविर्भविष्यति |

Sep 072015
 

मासेस्मिन् श्रीकृष्णजन्माष्टमी तथा गणेशचतुर्थी पर्वाचरणार्थं कृष्णस्य वा गणेशस्य लीलाविशेषवर्णनानि   रूपकालङ्कारभूयिष्ठानि रसवत्पद्यानि रचयामः |

Two important festivals, Krishna Janmashtami and Ganesha Chaturthi are celebrated in this month. We shall celebrate the same by composing verses describing the wonderful and inexhaustible pastimes of krishna or ganesha. The verses should consist rUpaka/metaphor as the main figure of speech.

Aug 062015
 
आषाढमासस्तु कविकुलगुरुकालिदासप्रियमासः। अत एव मासेस्मिन् समस्यायां सः कर्णाटभाषायां काव्यं करोति |

समस्या : कर्णाटोक्त्यां कवनमकरोत् कालिदासः कवीन्द्रः|

छन्दः : मन्दाक्रान्ता

AshADha being very much beloved to the greatest poet kAlidAsa, the topic also is about him.
i.e. “kAlidAsa wrote poetry in kannada”. The line is set in mandAkrAntA metre which is one of his favourite metres which (at least in its present form) might have been conceived by him.

Jul 072015
 

वृक्षाद्दृष्ट्वा शफरपतनं जीवलोको जहर्ष |

इति पादमुपयुज्य समस्यापूरणं कुर्मः |

 

Apr 022015
 
गङ्गानदी लवणवारिमयी बभूव ।

इति पादमुपयुज्य समस्यापूरणं कुर्मः ॥